________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ५ का.
द्वितीययाऽऽदित्ये परिविष्यमाणेऽक्षततण्डुलान् जुहुयात् हत्पत्रस्वत्ययनकामः ॥ ३१ ॥
पदं त्रायते,-दति पत्रं वाहनमाचन्महे । वृहत्शब्दो महदचनः । वृहत् च तत् पत्रञ्चेति वृहत्पत्रं इस्त्यश्वादिकमुच्यते । तेषां वस्त्ययनमारोग्यं कामयते, इति वृहत्पवस्वस्त्ययनकामः:-प्रकृतस्य पवर्चस्य द्वितीयया ऋचा,-मृतं सत्ये प्रतिष्ठितम्,इत्येवमादिकयेत्येतत् । श्रादित्ये सवितरि परिविष्यमाणे, अक्षततण्डुलान् जुहुयात् , -दूत्युतार्थम् । परिवेषः परिधिरित्यनर्थान्तरम् । यत्र खल्वादित्यस्य किरणाः वातेन मण्डलीभूताः तस्य परितो नानाभाः लक्ष्यन्ते, सोऽयमादित्यस्य परिवेषः, इत्याचक्षते । तथा चोकम् । _ “वातेन मण्डलीभूताः सूर्याचन्द्रमसेाः कराः ।
नानाभा व्याहितन्वन्तः परिवेषाः प्रकीर्तिताः" । इति । तदिदमुपरिटादै क्षम् । क्षिाहोममत्रेच्छन्ति ॥०॥ ३१ ॥०॥
तृतीयया चन्द्रमसि तिलतण्डुलान् क्षुद्रपशु स्वस्त्ययनकामः ॥ ३२॥
प्रकृतस्य पञ्चच॑स्य हतीयया ऋचा,-अभिभागोऽमि, इत्यादिकये। त्येतत् । चन्द्रमसि परिविष्यमाणे तिलतण्डुलान् जुहुयादित्यनुवर्तते । तिलतण्डुलान्,-इति, अक्षततण्डुलान्,-इतिवद्व्याख्येयम् । को जुहुयात् ? । क्षुद्रपखस्दयनकामः । क्षुद्रपशब्देनाजाविकाधुच्यते । सर्वमन्यत् पूर्ववत् ॥०॥ ३२ ॥०॥
For Private and Personal Use Only