________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पू
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[३ प्र. १० का . ]
नेनेापदिश्यते । किं कारणम् ? । उभयविधाने वाक्यभेदः । श्रथवा ।
नित्यत्वेऽप्यानुषङ्गिकमेव पुष्टिफलं भविष्यति ।
" नित्यक्रियां तथा चान्ये धनुषङ्गफलां श्रुतिम्” । दूति स्मरणात् । श्रथैवं समस्ता एव देवता उपदिश्य परत एव पुष्टिक, — दूति कुतो न सूचितम् ? | श्रन्ये त्वाहुः - " तथात्वे पुष्टिक चतुरष्टको हेमन्तः, -इत्युत्तरसूत्रेणैकस्रुचताशङ्का स्थात् श्रतस्तथा न कृतम् " - दूति ॥ ० ॥
परत एव वच्यामः ।
॥ २ ॥ ० ॥
यी पिल्या वा प्राजापत्यर्तुदेवता वैश्वदेवीति देवताविचाराः ॥ ३ ॥
श्रग्नेरियमाग्नेयी । प्रकृतत्वादष्टकेति सम्बध्यते । पितॄणामियं पित्र्या । प्रजापतेरियं प्राजापत्या । ऋतवो वसन्तादयः, देवता यस्याः सेयमृत देवता । विश्वेदेवाः सर्व्वेदेवा:, तेषामियं वैश्वदेवी । वा शब्दः प्रत्येकमभिसम्बध्यते । श्रग्नेयी वा पित्र्या वा प्राजापत्या वा ऋतुदेवता वा वैश्वदेवो वा । इति एते देवताविचारा भवन्ति । इदमिदानीं सन्दिह्यते । किं पशुप्रोक्षणनिर्व्वी पहा मेब्वेतद्विकल्पोक्तानां देवतानां मध्यादिच्छया श्रन्यतमस्या श्रभिसन्धानं कर्त्तव्यम् ? श्रहेोखित् सर्व्वासाम् ? उताहो नैकस्या अपि ? इति । नैकस्या अपि — इति ब्रूमः । किं देवताका तर्ह्यष्टका ? ; न खल्वदेवताका भवितुमर्हति । उच्यते । वयमदेवताकामष्टकामा चाहे, रात्रिदेवताकान्तु ब्रूमहे । कस्मात्
For Private and Personal Use Only