________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
अजितसेनव्याकरणम् अथ स नगरवलम्बिका दारिका शून्याकारगृहे [निषण्णा] इमा गाथा भाषित्वा तूष्णी स्थिताभूत् ।
अथ शुद्धवासकायिको देवपुत्रोऽन्तरीक्षगतः स्थितश्चिन्तयति स्म। पश्येच्चे दिमां भगवान् । अनेकदुष्करकोटिनियुतशतसहस्रचीर्णचरितः स शाक्यमुनिस्तथागतो नगरवलम्बिकाया दारिकाया गृहे स्थितोऽभूत्। अथ शुद्धवासकायिको देवपुत्रः शतसहस्रमूल्यं' मुक्ताहारं गृहीत्वा शतरसभोजनपिटकं गृहीत्वा काशिकानि वस्त्राणि गृहीत्वा येन नगरवलम्बिकाया दारिकाया गृहं तेनोपसंक्रान्तोऽभत्। अथ शुद्धवासकायिको देवपुत्रो नगरवलम्बिका दारिकामेवमाह। प्रावर दारिके इमानि काशिकानि वस्त्राणि इमान्यनेकशतसहस्रमूल्यान्याभरणानि। प्रावृत्य चेदं' शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा इमं शतरसभोजनपिटकं गृहीत्वा भगवन्तमुपनामय। अथ सा दारिका तानि काशिकानि वस्त्राणि प्रावृत्य शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा तं शतरसभोजनपिटकं गृहीत्वा येन भगवांस्तेनोपसंक्रान्ता। उपसंक्रम्य भगवन्तमुपनामयति स्म। अथ भगवान् तां नगरवलम्बिकामेवमाह। परिणामय त्वं दारिके यथा परिणामितं विपश्यिशिखिविश्वभुक्ककुतसुन्दकनकमुनिकाश्यपप्रभृतिभिः सद्भिस्तथागतैरर्हद्भिः सम्यक्सम्बुद्धैः । अन्तो भविष्यति स्त्रीभावादन्तो भविष्यति दरिद्रगृहात्। अथ सा दारिका तं पिण्डपातं परिणामयित्वा
1 Ms. पश्यथ इमां 5 Ms. प्रावरित्वा
2 Ms. अन्यं 3 Ms. प्रावरित्वा 4 Ms. अयं 6 Ms. adds परिणामितं तथा परिणामय
For Private and Personal Use Only