________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अजितसेनव्याकरणम्
१०७ निषण्णाः प्रादुरभूवन प्राञ्जलयः। अथ भगवतः प्रविष्टमात्रेण श्रावस्त्यां महानगर्या नवनवतिकोटीनियुतशतसहस्राणि सत्त्वानां सुखावत्यां लोकधातौ प्रतिष्ठापितानि चतुरशीतिसत्त्वकोटीनियुतशतसहस्राण्याभिरत्या लोकधातोरक्षोभ्यतथागतस्य बुद्धक्षेत्रे प्रतिष्ठापितानि।
__ अथ भगवान् आनिन्देन सह नगरवलम्बिकाया दारिकाया गृहे समागतोऽभूत् । अथ भगवान् नगरवलम्बिकाया दारिकाया गृहे चक्रिकं कटकटापयामास । अथ सा दारिका तं चक्रीशब्दं श्रुत्वा संशयजाताभूत्। को हेतुः कः प्रत्ययः । मम गृहे न कदाचित् पिण्डपातिक' आगतोऽभूत्। अथ स नगरवलम्बिका दारिका शून्याकारगृहे निषण्णा अश्रुकण्ठी रुदन्ती परिदेवन्ती स्थिताभूत् तीक्ष्णधारमसिं गवेषन्ती परिदेवन्ती रुदन्ती स्थिताभूत् । अथ [सा] दारिका शून्याकारगृहे निषण्णा परिदेवन्ती अश्रुकिण्ठी] रुदन्ती गाथाभिरध्यभाषत। . अहो बत दुःखु दरिद्रके गृहे
वरं मम मरणु न चापि जीवितम् । किं चापि मे कार्युषु जीवितेन
___ यद्यैवाहं दुःखु शरीर पीडितम् ॥ केन........................ह्यत्राणं भवते परायणम् । अनाथभूता अहमद्यमेव यद्यैवाहं जात दरिद्रके गृहे ॥
3
Ms. भगवान्
2 Ms. कटकटीमयमास 4 For रुदती
3 Ms. adds गृहम्
For Private and Personal Use Only