________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
अजितसेनव्याकरणम् नन्दमामन्त्रयते स्म। गच्छानन्द पात्रं चक्रिकं शिक्यमानय । अथायुष्मानानन्दो भगवतः श्रुतमात्रेण पात्रं चक्रिकं शिक्यं भगवते उपनामयामास। अथायुष्मानानन्दो भगवतः कृताञ्जलिपुटो भगवन्तं गाथाभिरध्यभाषत ।
यदा त्वं प्रविशसि पिण्डपातिक
विमोचये त्वं बहवं हि प्राणिनाम् । उत्तारये त्वं बहवं हि सत्त्वा
नरकभयाज्जातिजरामहाभया॥ संसारदुःखकलिला महाभया
द्विमोचये त्वं नर लोकनायक । महानुभावो वरदक्षिणीयो
विमोचयित्वा पुनरं हि आगमी ॥ अथायुष्मानानन्दो भगवत इमा गाथा भाषित्वा तूष्णीं स्थितोऽभूत् । अथ भगवान् श्रावस्त्यां महानगयों नातिदूरे स्थितोऽभूत्। अथ ते सर्वे गवाक्षतोरणनिर्यहका [हिरण्यामयाः स्फटिकमया रूप्यमयाः प्रादुरभूवन् । तथा श्रावस्त्यां महिानगयीं] महान्तं जनकायं संस्थितोऽभूवन् । अथ स जनकायः संशयजातो बभूव को हेतुः कः प्रत्ययः नगरस्य शुभनिमित्तं प्रादुरभूत्। मा चेदं नगरं भस्मप्रलयं स्यात् । अथ तत्र जनकाये अनेकवर्षशत.
1 Ms. यं 2 Ms. adds here विमोचयित्वा बहवं हि सत्त्वा संसारदुःखकलिला महाभया । 3 Ms. चायं
For Private and Personal Use Only