________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
आर्यश्रीमहादेवीव्याकरणम् तत्र च लोकधातौ स एव तथागत आलोककरो भविष्यति। ते च बोधिसत्त्वास्तव बुद्धक्षेत्रे स्वयंप्रभा भविष्यन्त्यपरिमितायुषश्च । आकाशतश्च बुद्धधर्म सङ्घ शब्दो' निश्वरिष्यति । ये च बोधिसत्त्वास्तत्र बुद्धक्षेत्रे उपपत्स्यन्ते सर्वे ते पद्मकर्कटिकासूपपत्स्यन्ते । तत्र कतमद्दादशदण्डकं नामाष्टशतं विमलप्रख्यं स्तोत्रम् । शृणु अभया. वलोकितेश्वर श्रिया महादेव्या नामानि। तद्यथा सर्वतथागताभिषिक्ता सर्वदेवताभिषिक्ता] सर्वतथागतमाता सर्वदेवतामाता सर्वतथागतश्रीः सर्वबोधिसत्त्वश्रीः सर्वार्यश्रावकप्रत्येकबुद्धश्रीः ब्रह्मविष्णुमहेश्वरश्रीः महास्थानगतश्रीः सर्वदेवताभिमुखश्रीः सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगश्रीः सर्वविद्याधरवज्रपाणिवज्रधरश्रीः चतुःपञ्चलोकपालश्रीः अष्टग्रहाष्टाविंशतिनक्षत्रश्रीः ॐ सावित्री धात्री माता चतुर्वेदश्रीः लक्ष्मीः भूतमाता जया विजया गङ्गा सर्वतीर्थी सर्वमङ्गल्या विमलनिर्मलकरश्रीः सर्वपापहन्त्री निर्मदकरा' चन्द्रश्रीः सूर्यश्रीः सर्वग्रहश्रीः सिंहवाहिनी शतसहस्रकोटीपद्मविवरसंच्छन्ना पद्मा पद्मसम्भवा पद्मालया पद्मधरा पद्मावती अनेकरत्नांशुमाला धनदा श्वेता महाश्वेता श्वेतभुजा सर्वमङ्गलधारिणी सर्वपुण्योपचिताङ्गी दाक्षायणी शतसहस्रभुजा शतसहस्रनयना शत
1 Tib. NEXTT 5 355 | सोरुमी । 2 Tib. डोमिया
Tib. घाउमा सदराम 4 Tib. सुमारा । 5_Ms. ०ब्धीला. Tib. दमे २१२ माद हो सका ।
For Private and Personal Use Only