SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वतथागताधिष्ठान-सत्त्वावलोकन-बुद्धक्षेत्रसन्दर्शन-व्यूहम् अस्यां खलु पुनर्धारण्यां भाष्यमाणायां षष्टीनां च प्राणिसहस्राणामनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलंभोऽभूत् । सर्वे च सर्वकर्मावरणविनिमुक्ताः सर्वाभिप्रायपरिपूर्णाः संवृत्ताः। अथ खलु वज्रपाणिर्बोधिसत्त्वो दशदिशं व्यवलोक्य भगवन्तमेतदवोचत् । अस्ति भगवन् अभयतेजं नाम धारणी बोधिसत्त्वानां प्रतिज्ञा या मया अभयव्यूहराजस्य तथागतस्यान्तिकादुद्गृहीता। उद्गृह्य सर्वसत्त्वेभ्यः प्रकाशिता। ततः पुनः भगवन् नाभिजानामि यस्य स्वप्नऽपि सा धारणी कर्णपुटे निपतितान्तर्गता तस्य स्याच्छरीरे दौर्बल्यं वा क्लेशो वा व्याधिर्वा ज्वरो वा कायशलं बा चित्तपीडा वा अकालमृत्यु; उदकं वा शस्त्र वा विषं वा गरं वा डाकिनी वा भूतो वा यक्षो वा शत्रवो वा मनुष्या वामनुष्या वा विहेठं वा कर्तुं हिंसां वा विधातुं वा नेदं स्थानं विद्यते । तदनुजानातु भगवन् यदहं बोधिसत्त्वप्रतिज्ञामुद्रां दास्यामि । तेषां धर्मभाणकानां धर्मश्रावणिकानामर्थाय श्रोतृणां मानयितृणां पूजयितॄणां धारयितॄणां वाचयितॄणां सर्वाशापरिपूरकराणि । ___नमः सर्वबुद्धानाम्' । सर्वबोधिसत्त्वानामर्हन्तानाम् । तद्यथा ओम् वज्रधर वज्रधर वज्रकाय वज्रबल वज्रतेज । हुम् हुम् । वज्र. 1 Ms. अस्मिन् ! 'Tib. ATीना 3 Ms. ण __4 Ms. यस्य स्या सा ; Tib. मग मी मा । 5 Ms. श्रोत्रीणां ___6_Ms धारयित्रीणां वाचयित्रीणां 7. 'Tib. सर्वतथागतानाम् ८ For Private and Personal Use Only
SR No.020346
Book TitleGilgit Manuscripts Vol 01
Original Sutra AuthorN/A
AuthorNalinaksha Dutt, D M Bhattacharya, Shivnath Sharma
PublisherGovernment of Jammu
Publication Year
Total Pages266
LanguageSanskrit, English
ClassificationBook_Devnagari & Catalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy