________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भैषज्यगुरुसूत्रम्
२६ प्रथममकालमरणम्। द्वितीयमकालमरणं . यस्य राजदण्डेन कालक्रिया'। तृतीयमकालमरणं येऽतीव प्रमत्ताः प्रमादविहा. रिणस्तेषां मनुष्या' ओजोऽपहरन्ति। चतुर्थमकालमरणं ये अग्निदाहेन कालं कुर्वन्ति। पंचमं चाकालमरणं ये च उदकेन म्रियन्ते । षष्ठमकालमरणं ये [सिंह]व्याघ्रव्याडचण्डमृगमध्यगता वासं कल्पयन्ति च म्रियन्ते । सप्तममकालमरणं ये गिरि. तटात् प्रपतन्ति । अष्टममकालमरणं ये विष-काखोर्द-वेताला. नुप्रयोगेण म्रियन्ते'। नवममकालमरणं ये क्षुत्तषोपहता [आहार]पानमलभमाना [आर्ताः] *कालं कुर्वन्ति। एतानि संक्षेपतोऽकालमरणानि' तथागतेन निर्दिष्टानि। अन्यानि चाप्रमेयाण्यकालमरणानि । __ अथ खलु" तत्र पर्षदि द्वादश महायक्षसेनापतयः सन्नि. पतिता अभूवन यदुत किंभीरो' नाम महायक्षसेनापतिर्वज्रश्च।
1 B .कृया
2 B मानुषा भोजम० ; C अमनुष्याः । cf. Chinese, Taisho ed., vol. XIV., p. 404 col, 1, ll. 27-28.
3 B नियति ; C मरिष्यन्ति 4 B मरन्ति ; C गता भवन्ति 5 B ० तटे. .. 6 0 वेतालप्रयोगेण 7 B & C मरन्ति
8 B omits 917 ; C omits af: ; Tib. 475* 57' N 551 SAVO རྙེད་ནས་ བཀྲེས་ བ་ དང་ སྐོམ་པས་ ཉེན་དེ་ འཆི་ བའི་དུས བྱེད་ པའོ །
9 B माना...तानि पक्षे अकाल० ; C एते संक्षेपेण महन्तञ्च अकाल० ; cf. Tib. མདོར་ ན་ འདི་ དག་ནི། །
10 C अकालमरणा न च तथागतेन निर्दिष्टाः। अन्ये प्रमेया अकालमरणाः 11 C omits खलु 12 B पर्षायं 13 Tib. २ मा 14 C omits नाम 15 Tib. में
For Private and Personal Use Only