________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गो.म. अ.३. // 17 // हेयएवासौ तथा च स्मृतिः 'न जानु कामः कामानामु पभोगेन शाम्यति हविषा कृष्णवमेव भूयएवाभिवर्धतइति अथवा इच्छायाविषयसिद्विनिवर्त्यवादिच्छारूपः कामोविषयभोगेन स्वयमेव निवर्तिप्यते किं तत्रातिनिर्बन्धेनेत्यतउनी दुःपुरणानलेनचेति विषयसिद्ध्या तत्कालमिच्छातिरोधानेपि पुनः प्रादुर्भावान विषयसिद्धिरिच्छानिवर्तिका किंतु विषयदोषदृष्टिरेव तथेति भावः // 39 // ज्ञाते हि शत्रोरधिष्टाने सु खेन सजेतुं शक्यतइति तदधिष्ठानमाह इन्द्रियाणि शब्दस्पर्शरूपरसगन्धग्राहकााण श्रीवादीनि वचनादानगमनविसर्गानन्दजनकानि बागादीनिच मनः सङ्कल्पात्मकं बुद्धिरध्यवसायात्मिका च अस्य कामस्याधिष्ठानमाश्रयउच्यते यतः एतैरिन्द्रियादिभिः स्वस्वव्यापारवद्भिरायौर्वमोहयात विविध मोहयति एपकामीज्ञान विवेकज्ञानमावृत्याच्छाद्य देहिनं देहाभिमानिनम् // 10 // यस्मादेवं यस्मादिन्द्रियाधिष्टानः कामोदेहिनः मोहयति तस्मात्त्वमादौ मोहनात्पूर्व कामनिरोधात्पूर्वमिति वा इन्द्रियाणि श्रोत्रादीनि नियम्य वशीकृत्य तेषु हि वशीकृतेषु मनोबुद्ध्योरपि वशीकरणं सिध्याते सङ्कल्पाध्यवसाययोर्बाधेन्द्रियप्रवृत्तिहारैवानर्थहेतुत्वात् अनइन्द्रियाणि मनोबुद्धिरिति पूर्व पृथनिर्दिइन्द्रियाणि मनोवुद्धिरस्याधिष्ठानमुच्यते // एतैविमोहयत्येपज्ञानमावृत्य देहिनम् // 4 // तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनं॥४१॥ श्यापीनेन्द्रियाणीत्येतावदुक्तं इन्द्रियत्वेन तयोरपि संग्रहोवा हे भरतर्षभ महावंशप्रसूतत्वेन समयोसि पाप्मानं मर्वपापमुलभूतमेनं काम | वैरिणं प्रजारि हि परित्यज हि स्फुटं प्रजाहि प्रकर्षण मारयति वा जहि शत्रुमित्युपसंहाराच्च ज्ञानं शास्त्राचार्योपदेशज परोक्षं विज्ञानमपरोक्षं तकलं तयोज्ञानविज्ञानयोः श्रेषःप्रातिखोर्नाशनम् // 41 // ननु यथाकथंचिद्वाह्यन्द्रियनियमसंभवेप्यान्तरनष्णात्यागोतिदुःष्करइति चेन् न रसोप्यस्य परं दृष्ट्वा निवर्ततइत्यत्र परदर्शनस्य रसाभिधानीयकतृष्णात्यागसाधनस्य प्रागुक्तेः तहि कोसौ परोयदर्शनात्तष्णानित्तिरित्याशच शुद्धमात्माने परशदनाच्यं देहादिभ्योविविच्य दर्शयति श्रोत्रादीनि ज्ञानेन्द्रियाण पञ्च स्थूल जई परिच्छिन्नं बाहां च देहमपेक्ष्य पराणि सूक्ष्मत्वात्प्रकाशकस्यान्चापकत्वादन्तःस्थत्वाच प्रकृष्टान्याहुः पण्डिनाः श्रुतयोवा तथेन्द्रियेभ्यः परं मनः सङ्कल्पविकल्पात्मक तत्पवर्तकत्वात् तथा मनसस्तु परा बुद्धिरध्यवसायात्मिका अध्यवसायोहि निश्चयस्तत्पूर्वकएव सङ्कल्पादिर्मनोधर्मः यस्तु बुद्धेः परतस्तनासकवेनावस्थितः यं देहिनमिन्द्रियादिभिराश्रयैर्युक्तः कामोजानावरणहारेण मोहयतत्युिक्त सबुद्धेटा परआत्मा सएषहह For Private and Personal Use Only