________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. // 18 // यमप्रमेयं न तत्र सूर्योभाति न चन्द्रतारक नेमाविद्युतोभान्ति कुतोयमग्निः तमेवभान्तमनुभाति सर्व तस्य भासा सर्वमिदं विमातीनि च श्रुतेः स्वप्रकाशचैतन्यरूपएवात्मातस्तस्य सर्वभासकस्य स्वभानार्थं न स्वभास्यापेक्षा किन्तु कल्पिताज्ञानतत्कार्य निवृत्यर्थ कल्पितवृत्तिविशेषापेक्षा कल्पितस्यैव कल्पितविरोधित्वात् यक्षानुरूपोबलिरिनि न्यायात् तथा च सर्वकल्पितनिवर्तकत्तिविशेषोत्पत्यर्थं शास्त्रारम्भः तस्य तत्त्रमस्यादिवाक्यमात्राधीनत्वान् स्वतः सर्वदा भासमानत्वात्सर्वकल्पनाधिष्ठानस्वादृश्यमावभासकत्वाच न तस्य तुच्छत्वापत्तिः तथा चैकमेवाद्वितीयं सत्यं ज्ञानमनन्तं ब्रह्मेल्यादिशास्त्रमेव स्वप्रमेयानुरोधेन स्वस्यापि कल्पितत्वमापादयति अन्यथा स्वप्रामाण्यानुपपत्तेः कल्पितस्य चाकल्पितपरिच्छेदकत्वं नास्तीति प्राक् प्रतिपादितं आत्मनः स्वप्रकाशत्वंच युक्तितोपि भगवत्पूज्यपादरुपपादितं तथाहि यत्र जिज्ञासोः संशयविपर्ययव्यतिरेकप्रमाणामन्यतममापि नास्ति तत्र तबिरोधि ज्ञानामति सर्वत्र दृष्टं अन्यथा त्रितयान्यतरापत्तेः आत्मनिवाचाहं नाहं वेति न कस्यचित् संशयः नापि नाहमिति विपर्ययः प्रमावति तत्स्वरूपप्रमा सर्वदास्तीति वाच्यं तस्य सर्वसंशयविपर्ययधर्मित्वात् धयंशे सर्वमभ्रान्तं प्रकारे नु विपर्ययइति न्यायात् अतएवोक्तं 'प्रमाणमप्रमाणं च प्रमाभासस्तथैव च कुर्वन्त्येव प्रमां यत्र नदसंभावना कुतइति' प्रमाभासः संशयः स्वप्रकाशे सदूपे धर्मिणि प्रमाणाप्रमाणयोर्विशेपोनास्तीत्यर्थः आत्मनोभासमानवे च घटज्ञानं माय जातं नवेत्यादिसंशयः स्यात् नचान्तरपदार्थ विषयस्यैव संशयादिप्रतिबन्धकत्वस्वभावः कल्प्यः बाह्यपदार्थे कृपेन विरोधिज्ञानेनैव संशयादिप्रतिबन्धसम्भवे आन्तरपदार्थे स्वभावभेदकल्पनायाअनौचित्यात् अन्यथा सविलवे.पपत्तेः आत्ममनोयोगमात्रञ्चात्मसाक्षात्कार हेतुः तस्य च ज्ञानमात्रे हेतुत्वाद्घटादिभानेप्यात्मभानं समूहालम्बनन्यायेन तार्किकाणां प्रवरेणापि दुर्निवारं न च चाक्षुषत्वमानसत्वादिसङ्करः लौकिकल्यालौकिकत्ववदंशभेदेनोपपत्तेः सङ्करस्यादोषत्वाचाक्षुषत्वा दर्जातिवानभ्युपगमादा व्यवसायमात्रएवात्मभानसामग्र्याविद्यमानत्वादनुव्यवसायोप्यपास्तः न च व्यवसायभानार्थं सः तस्य दीपत्रत् स्वव्यवहारे सजालीयानपेक्षत्वान् न हि घटनज्ञानयोरिव व्यवसायानुव्यवसाययोरपि विषयत्वविषयित्वव्यवस्थापकं वैजात्यमस्ति व्यक्तिभेदानिरिक्तवधानभ्युपगमान् विषयत्वावच्छेदकरूपेणैव विषयित्वाभ्युपगमे घटयोरपि तद्भावापत्तिरविशेषात् ननु यथा घटव्यवहारायं घटज्ञान मभ्युपेयते तथा घटज्ञानव्यवहारार्थ घटज्ञानविषयं ज्ञानमभ्युपेयं व्यवहारस्य व्यवहर्तव्यज्ञानसाध्यत्वादिति चेत् कानुपपत्तिरुद्भाविता mammam // 18 // For Private and Personal Use Only