________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 13 // 18 // स्वाऽमृतमभुत इत्युक्तमुपसंहरति यएवमुक्तेन प्रकारेण वेत्ति पुरुषमयमस्मीति साक्षात्करोति प्रकृति चाविद्यां गुणैः स्वविकारैःसह मिथ्याभूतात्माविद्यया वाधितां वेत्ति निवृत्ते ममाज्ञानतत्कार्यइति ससर्वथा प्रारब्धकर्मवशादिन्द्रवद्विधिनतिक्रम्य वर्तमानोपि भयोन जायते पतितोस्मन् विद्वच्छरीरे पुनर्देहग्रहणं न करोति अविद्यायां विद्यया नाशितायां तत्कार्यासंभवस्य बहुधोक्तत्वात तदधिगमउत्तरपूर्वाधयोरश्लेषविनाशी तायपदेशादिति / न्यायात् अपिशब्दाद्विधिमनतिक्रम्य वर्तमानः स्ववत्तस्थोभूयोन जायतइति किम वक्तव्यमित्यभिप्रायः // 23 // अत्रात्मदर्शने साधनविकल्पाइमे कथ्यन्ते इहहि चतुर्विधाजनाः कचिदुत्तमाः केचिन्नध्यमाः केचिन्मन्दाः केचिन्मन्दतराइति सत्रोत्तमानामात्मज्ञानसाधनमाह ध्यानन विजातीयप्रत्यानन्तरितेन सजातीयप्रत्ययप्रवाहेण अव यएवं वेत्ति पुरुषं प्रकृति च गुणैः सह // सर्वथा वर्तमानापि न सभूयोभिजायते // 23 // ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना // अन्ये सायेन योगेन कर्मयोगेन चापरे // 24 // णमननफलभूतेनात्मानन्तनेन निदिध्यासनशब्दोदितेन आत्मनि बुद्धो पश्यन्ति साक्षात्कुर्वन्ति आत्मानं प्रत्यक्वेतनमात्मना ध्यान संस्कृतेनान्तःकरणेन केचिदुत्तमाः योगिनः मध्यमानामात्मज्ञानसाधनमाह अन्य मध्यमाःसाङ्कत्येन योगेन निदिध्यासनपूर्वभाविना श्रवणमननरूपेण नित्यानित्यविवेकादिपूर्वकेण इमे गुणत्रयपरिणामाअनात्मानः सर्वेमिथ्याभूतास्तत्साक्षिभूतोनित्योविभुनिर्विकारःसत्यः मरतजसंबन्धशम्यारमाहमित्येवं वेदान्तवाक्यविचारजन्येन चिन्तनेन पश्यन्त्यात्मानमात्मनीनिवर्तन्ते ध्यानोत्पत्तिद्वारेणेत्यर्थः मन्दानांज्ञानसाधनमाह कर्मयोगेन ईशरार्पणबुद्ध्या क्रियमाणेन फलाभिसन्धिरहितेन तत्तवर्णाश्रमोचितेन वेदविहितेन कर्मकलापेन चापरे मन्दाः पश्यन्यात्मानमात्मनीति र्वतन्ते सत्त्वशुद्ध्या श्रवणमननध्यानोत्पत्तिद्वारेणेत्यर्थः // 24 // मन्दतराणां ज्ञानसाधनमाह // 148 // For Private and Personal Use Only