________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गा. म. 5 252545265 स्यन्वयः तद्यथेह कर्मचितोलोकः क्षीयतएवमेवामुत्र पुण्यचितोलोकः क्षीयतइतिश्रुतेः यत्कृतकं तदनित्यमित्यनुमानान् प्रत्यक्षेणाप्यहिकानां विनाशदर्शनाच नैहिक आमुत्रिकोवा भोगः शोकनिवर्तकः किन्तु स्वसत्ताकालपि भोगपारतन्त्र्यादिना विनाशकालेपि विच्छेदाच्छोकजनक एवेति नयुद्धं शोकनिवृत्तयेऽनुष्ठेयमित्यर्थः एतेनेहामुत्रभोगविरागोऽधिकारिविशेषणत्वेनदर्शितः // 8 // तदनन्तरमर्जुनः किंकृ. नवानिति धतराभाकाङ्क्षायां गुडाकेशोजितालस्यः परंतपः शत्रुतापनोर्जुनः हषीकेशं सर्वेन्द्रियप्रवर्तकत्वेनान्तर्यामिणं गोविन्द गां वेदलक्षणां वाणी विन्दतीति व्युत्पत्त्या सर्ववेदोपादानत्वेन सर्वज्ञं आदौ एवं कथं भीष्ममहं सङ्कघइत्यादिना युद्धस्वरूपाध्योग्यतामुक्त्वा तदनन्तर नयोत्स्यइति युद्धफलाभावं चोक्त्वा तृष्णीं बभूव बाह्यन्द्रियव्यापारस्य युद्धार्थ पूर्व कृतस्य निवृत्त्या निापारोजातइत्यर्थः स्वभावतोजितालस्ये सर्वशत्रुतापनेच तस्मिन्नागन्तुकमालस्यमतापकत्वंच नास्पदमादधातीति द्योतयितुं हशतः // संजयउवाच // एवमुक्त्वा दृषीकेशं गुडाकेशः परंतप // न योत्स्यइति गोविन्दमुक्त्वा तूष्णीं बभूव ह // 9 // तमुवाच हृषीकेशः प्रहसन्निव भारत // सेनयोरुभयोर्मध्ये विपी. दन्तमिदं वचः॥१०॥ | गोविन्दस्वषीकेशपदाभ्यां सर्वज्ञत्वसर्वशाक्तिस्वसूचकाभ्यां भगवतस्तन्मोहापनोदनमनायाससाध्यमितिसूचितम् // 9 // एवं युद्धमुपेक्षितवत्यप्यर्जुने भगवानोपेक्षितवानिति धृतराष्ट्रतुराशानिरासायाह सेनयोरुभयोर्मध्ये युद्धोद्यमेनागत्य तद्विरोधिन विषाद मोहं प्रामुवन्तं तमर्जुनं प्रहसन्निव अनुचिताचरणप्रकाशनेन लज्जाम्बुधौ मज्जयनिय दृषीकेशः सर्वान्तर्यामी भगवानिदं वक्ष्यमाणमशोच्यानित्यादि वचः परमगम्भीरार्थमनुचिताचरणप्रकाशकमुक्तवान् नतृपेक्षितवानित्यर्थः अनुचिताचरणप्रकाशनेन लज्जोत्पादनं प्रहासः लज्जा च दुःखालिगकेति द्वेषविषयएव मुख्यः अर्जुनस्यतु भगवत्कृपाविषयत्वादनुचिताचरणप्रकाशनस्यत्र विवकोत्पत्तिहेतुत्वादेकदलाभावेन गौणएवायं प्रहासइति कथयिमिवशब्दः लज्जामुत्पादयितुमिव विवेकमुत्पादयितुं अर्जुनस्यानुचिताचरणं भगवता प्रकाश्यते लज्जोत्पत्तिस्तु नान्तरीयकतयास्तु मास्तु वेति न विवक्षितेतिभावः यदि युद्धारम्भात्यागेव गहे स्थितोयुद्धमुपेक्षेत नदा नानुचितं कुर्यात् महता संरम्भेणतु युद्धभूमावागत्य तदुपेक्षणमतीव' चेतमिति यितुं सेनयोरित्यादिविशेषणं एतमाशोच्यानित्यादौ स्पष्टं भविष्यति तत्रार्जुनस्य युद्धाख्ये 1256252525-2555 For Private and Personal Use Only