SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir दीमोहुताशोवस्त्रं यस्य वक्त्रेषु यस्येति वा तं स्वतेजसा विश्वमिदं नपन्तं संतापयन्तं त्या त्या पक्ष्यामि // 19 // प्रकृतस्य भगवद्रूपस्य व्यानिमाह द्यावापृथिव्योरिदमन्तारसं हि एवं त्वयैवैकेन व्याप्तं दिशश्च सर्वाव्याताः दृष्ट्वाइतमत्यन्तविस्मय कमिदमुग्रं दुरधिगमं महातेजास्वत्वात्तव रूपगुपलभ्य लोकत्रयं प्रव्यथितं अत्यन्तभीतं जातं हेमहात्मन् साधूनामभयदायकइतःपरमिदमुपसंहरेत्यभिप्रायः // 20 // अधुना भूभारसंहारकारित्वमात्मनः प्रकटयन्तं भगवन्तं पश्यन्नाह अमीहि सुरसंघावस्वादिदेवगणाभूभारावतारार्थ मनुष्यरूपेणावती: युध्यमानाः सन्तस्त्वा त्वां विशन्ति प्रविशन्तोदृश्यन्ते एवममुरसद्यावाप्टथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः // दृष्ट्वाद्भुतं रूपमिदं तवोयं लोकत्रयं प्रत्यार्थितं महात्मन् // 20 // अमीहि त्वां सुरसझाविशन्ति केचिद्भीताः प्रा जलयोगणन्ति // स्वस्तीत्युक्त्वा महर्षिसिद्धरावास्तुवन्ति स्त्वां स्तुतिभिः पुष्कलाभिः // 21 // रुद्रादित्यावसवोयेच साध्याविश्वश्विनौ मरुतश्चौष्मपाश्च // गन्धर्वयक्षामुरसिद्धसड़ा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे // 22 // डाइति पदच्छेदेन भूभारभूताः दुर्योधनादयस्वां विशन्तीत्यपि वक्तव्यं एवमुभयोरपि सेनयोः केचिद्भीताः पलायनेप्यशक्ताः सन्तः प्राञ्जलयोगणन्ति स्तुवन्ति त्वां एवं प्रत्युपस्थिते युद्धे उत्पातादिनिमित्तान्युपलक्ष्य स्वस्त्यस्तु सर्वस्य जगतइत्युक्त्वा महर्षिसिद्धसानारदप्रभृतयोयुद्धदर्शनार्थमागताविश्वविनाशपरिहाराय स्तुवन्ति त्वां स्तुतिभिर्गुणोत्कर्षप्रतिपादिकाभिर्वाग्भिः पुष्कलाभिः परिपूर्णार्थाभिः // 21 // किंचान्यत् रुद्राधादित्याच वसवोयेच साध्यानाम देवगणाविश्वेतुल्यविभक्तिकविश्वेदेवशब्दाभ्यामुच्यमानादेवगणाः अश्विनी नासत्यदलो महतएकोनपञ्चाशद्देवगणाः ऊष्मपाच पितरः गन्धर्वाणां यक्षाणामसुरागां सिद्धानां च जातिभेदानां सङ्काः समहावीक्षन्ते परयान्ति त्वा त्वां तादृशाबुतदर्शनाते सर्वएव विस्मिता विस्मयलौकिकचमत्कारविशेषमापद्यन्तेच // 22 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy