________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. म. राजन धतराष्ट्र स्थिरोभव श्रवणाय महान्सर्वोत्कृष्टवासी योगेश्वरश्चेति महायोगश्वरोहरिभक्तानां सर्वक्लेशापहारी भगवान् दर्शनायोग्यमाप दर्शयामास पार्थाय एकान्तभक्ताय परमं दिव्यं रूपमैश्वरम् // 9 // तदेष रूपं विशिनटि अनेकानि वक्त्राणि नयनानि च यस्मिन्रूपे अनेकानाम तानां विस्मयहेतूनां दर्शनं यस्मिन् अनेकानि दिव्यान्याभरणानि भूषणानि यस्मिन् दिव्यान्यनेकान्युद्यतान्यायुधानि अस्त्राणि यस्मिन् तत्तथा रूपम् // 10 // दिव्यानि माल्यानि पुष्पमयानि रत्नमयानि च तथा दिव्याम्बराणि वस्त्राणि च नियन्ते येन तदिव्यमाल्याम्बरधरं दिव्योगन्धोऽस्यति दिव्यगन्धस्तदनुलेपनं यस्य तत् सर्वाश्चर्यमयमनेकाडुतप्रचुरं देवं द्योतनात्मकं अनन्त // 129 // अनेकवक्त्रनयनमेनकाद्भुतदर्शनम् // अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् // 10 // दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् // सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् // 11 // दिवि सूर्यसहस्रस्य भवेयुगपस्थिता।यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥१२॥ तत्रेकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा // अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा // 13 // मपरिच्छिन्नं विश्वतः सर्वतोमुखाने यस्मिन् तद्रूपं दर्शयामासेति पूर्वेण संबन्धः अर्जुनोददत्यिध्याहारोवा // 11 // देवमित्युक्तं विवृणोति दिवि अन्तरिक्षे सूर्याणां सहलस्य अपरिमितसूर्यसमूहस्य युगपटुदितस्य युगपस्थिताभाः प्रभा यदि भवेत् तदा सा तस्य महात्मनोविश्वरूपस्य भासादीमः सदृशी तुल्या यदि स्याद्यदि वा न स्यात् ततोपि ननं विश्वरूपस्यैव भाअतिरिच्यतेत्यहं मन्ये अन्या तपमा नास्त्येवेत्यर्थः अत्राविद्यमानाध्यवसाया त्तदभावनोपमाभावपरादभतोपमारूपेयमतिशयोक्तिरुत्प्रेक्षां व्यजती सर्वथा निरुपमत्वमेव व्यनक्ति उभौ यदि ब्योम्नि पृथक्प्रवाहावित्यादिवत् // 12 // इहैकस्थं जगत्कृत्तं पश्याद्य सचराचरामिति भगवदाज्ञप्तमप्यनुभूतवानर्जुन इत्याह एकस्थमेकत्र स्थितं जगन् कृत्स्नं प्रविभक्तमनेकधा देवपितृमनुष्यादिनानाप्रकारैः अपश्यदेवस्य भग For Private and Personal Use Only