________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 150525025252515255252515251525 पृथकीर्तनमातिप्राधान्यसूचनाय रथोत्तममग्निना दत्तं दिव्यं रथं भगवता स्वयमेव सारथ्येनाधिष्ठिततया च सर्वोत्तम स्थापयित्वा तृषीकेशः! सर्वेषां निगूढाभिप्रायज्ञोभगवानर्जुनस्य शोकमोहाघुपस्थिताविति विज्ञाय सोपहासमर्जुनमुवाच हेपार्थ पृथायास्त्रीस्वभावेन शोकमोहग्रस्तनया तत्सम्बन्धिनस्तवापि तहत्ता समुपस्थितेति सूचयन् त्दृषीकेशवमात्मनोदर्शयति पृथा मम पितुःस्वसा तस्याः पुत्रोसीति सम्बन्धोल्लेखन चाश्वासयति मम सारथ्ये निश्चितोभूत्वा सर्वानपि समवेतान् कुरून् युयुत्सून् पश्य निःशंकतयति दर्शनविध्यभिप्रायः अहं सारथ्येतिसावधानस्त्वं तु साम्प्रतमेव रथित्वं त्यक्ष्यसीति किं-तव परसेनादर्शनेनेत्यर्जुनस्य धैर्यमापादयितुं पश्येत्येतावत्पर्यन्तं भगवतोवाक्यं अन्यथा रय सेनयोर्मध्ये स्थापयामासेत्येतावन्मात्र बूयात् // 24 // 25 // तत्रापश्यस्थितान्पार्थः पितृनथ पितामहान् // आचार्यान्मातुलान् भ्रातृन्पुत्रान्पौत्रान् सखींस्तथा // 26 // श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि // तान्समीक्ष्य सकौन्तेयः थतान् // 27 // कृपया परयाविष्टोविषीदान्निदमब्रवीत् // तत्र समरसमारम्भार्थं सैन्यदर्शने भगवताभ्यनुज्ञाते सति सेनयोरुभयोरपि स्थितान्पार्थोपश्यादित्यन्वयः अथशब्दस्तथाशब्दपर्यायः परसेनायां पितृन् पितृव्यान् भूरिश्रवःप्रभृतीन् पितामहान् भीष्मसोमदत्तप्रभृतीन् आचार्यान् द्रोणकृपप्रभूतान् मातुलान् शल्यशकुनिप्रभृतीन् | भ्रातन दुर्योधनप्रभृतीन पुत्रान् लक्ष्मणप्रभृतीन पौत्रान् लक्ष्मणादिपुत्रान् सखीन् अश्वत्थामजयद्रथपभूनीन् सुत्दृदोमित्राणि कृतवर्मभगदत्तप्रभृतीन् सुत्दृदइत्यनेन यावन्तः कृतोपकारामातामहादयश्च ते द्रष्टव्याः एवं स्वसेनायामप्युपलक्षणीयम् एवं स्थिते महानधर्मोहिंसेति विपरीतबुद्ध्या मोहाख्यया शास्त्रविहितत्वेन धर्मत्वमिति ज्ञानप्रतिबन्धकेन च ममकारनिवन्धनेन चित्तवैक्लव्येन शोकमोहाख्येनाभिभतविवेकस्यार्जुनस्य पूर्वमारब्धात् युद्धाख्यात् स्वधर्मादुपरिरसा महानर्थपर्यवसायिनी प्रवृत्तेति दर्शयति कौन्तेयइति स्वीप्रभवत्वकीर्तन पार्थवत्तात्विकमुढतामपेस्य कृपया का स्वव्यापारेणैवाविष्टोव्याप्तः नतु कृपां केनचिहापारेणाविष्टइति स्वतःसिद्धवास्य कृपेति सूच्यते 1 कादायक For Private and Personal Use Only