________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः सौरूप्यं सहजोद्धगन्धभरितं सल्लक्षणेनाकितं सद्वीर्य प्रियवाक्समेतमनघं दधे शरीरं प्रभुः ।।५ सौवर्णगात्रः शतपत्रनेत्रो दयाकलत्रस्त्रिजगत्पवित्रः। नाभीशपुत्रो नुतसच्चरित्रो रेजे जिनेशः सुगुणकपात्रम् ॥६ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृती
गीतवीतरागे भगवजन्माभिषेकवणनो नामाष्टादशः प्रबन्धः ॥१८॥
[१९] साकं सुरेन्द्रप्रहितः सुरौघैः समानरूपैः समवेषधारैः। समानलीलैः समसुप्रलापैभेंजे जिनेशः स सदृग्वयस्कैः ॥ १ वदनविजितचन्द्रो देहसत्कान्तिसान्द्रो विनतसुरनरेन्द्रो विश्वपुण्यौधरुन्द्रः। हृदयनतमुनीन्द्रो दिव्यवाणीसुमन्द्रो। जयतु पुरुजिनेन्द्रो विष्टरभ्राड्मृगेन्द्रः ॥ २
८) A बभ्रे, but the com. दधे। ९) B पात्रः ।
For Private And Personal Use Only