________________
Shri Mahavir Jain Aradhana Kendra
४६
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः
जलनिधिहरिपीठे नागलोकं विमानं मणिगणमनलं निर्धूममद्राक्षमीश ॥ ३
श्रुत्वा सतीवाचमुवाच राजा देवि त्वया दृष्टगजाधिपाद्याः वदन्ति तुङ्गादिगुणाभिरामं वृषाधिनाथं समवाप्स्यसीति ॥ ४
जितपकमृदुवाणी नीलनागाभवेणी विमलतरचरित्रा विश्वनारीपवित्रा । इति निजपतिवाचा संशयध्वान्तमोचां श्रवसुखकृतपोषां श्रूयमाणा तुतोष ॥ ५
इति श्रीमदभिनव चारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे प्रभातवर्णनो नाम
सप्तदशः प्रबन्धः ॥१७॥
[ १८ ]
श्रयादीन्द्रदेवीभिरुपास्यमाना गर्भार्भकेनापि विराजमाना । स्वबन्धुवर्गेण सदेड्यमाना' बभौ मरालप्रमंदाभयाना ॥ १
१) H सदेज्यमाना ।
२) प्रमदा + आभ - याना; H प्रमदेभयाना |
For Private And Personal Use Only