________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गीतवीतरागप्रबन्धः
कनककदलीस्तम्भसदृशोरुसंयुता सुनखरुचिसलिलभवनलिनयुगचायिता। भाति हेममयधरणतनूघृणिजालिका ॥ ७ ॥ दिविजनारीनयनस्पर्शहृदयंगता नवकान्तिविधृतदिविजेन्द्रेण संगता। भाति हेममयधरणतनूघृणिजालिका ।। *८ ॥ सामानिकादिदशभेदसुरौघवन्द्यो मित्रामरैः सहजभोगसुखाभिनन्द्यः । पुण्यप्रभावजनिताम्बरभूषणाढ्यो दिव्या सुरेन्द्रपदवी चिरमावसत्सः ।। ३ सुललिततरवेषा दिव्ययोषाः सुभूषाः परिमलसुममालाः शस्त्रखेलाः सुचेलाः । मृदुलरवनिलीनारब्धगानाः सुमानाः परमसुखनिधानं निन्युरैनं निजेनम् ।। ४ कल्पे ऽच्युते कल्पतरूपशोभे कल्पान्त्यजेन्द्रः प्रविभुज्य भोगान् । त्यक्त्वा स्वदेहं निजजीवितान्ते श्रीवञनाभिर्जनपो ऽजनिष्ट ।। ५ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृती गीतवीतरागे अच्युतेन्द्रदिव्यशरीरवर्णनो
नाम द्वादशः प्रबन्धः ॥ १२ ॥
For Private And Personal Use Only