________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमः प्रबन्धः
पतिमतिरक्तिं नुतवरशक्ति धृतनिजवल्लभिकालिः कृतशृङ्गार भृतभृङ्गार जितरतिसुभगसुलीलः । सुकलय देव प्रकटसुभाव स्मरसमरूपविभार सुखपदजात सरसविनीत सरभसकार्यमुदार ।। *७॥ मञ्जलरावं पुञ्जितभावं पश्चितनृत्यविलासं रञ्जितवेषं सिञ्जितभूषं कञ्जदलाक्षिविभासम् । सुकलय देव प्रकटसुभाव स्मरसमरूपविभार सुखपदजात सरसविनीत सरभसकार्यमुदार ।। *८ ॥ इत्थं सुरोक्तं सकलं विधाय स श्रीधरस्तत्र सुखाब्धितीर्णः। च्युत्वा ततः पूर्व विदेहभूमौ पुत्रः पवित्रः सुविधिर्बभूव ॥ २ देशे महावत्सविशिष्टनाम्नि वरे सुसीमानगरे सुदृष्टेः । सौन्दर्यनन्दाख्यपर्तिवरायां सल्लक्षणोपेतमनोहराङ्गः ॥ ३
इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवयस्य कृतौ गीतवीतरागे श्रीधरस्य स्वर्गवैभववणनो
नाम दशमः प्रबन्धः ॥ १० ॥
७) वल्लभिका - आलिः ।
For Private And Personal Use Only