________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमः प्रबन्धः
प्रीतिंकरे मेघपथे गते ऽस्मिन् स्मृत्वा पुनस्तस्य गुणान्विनीतान् । जायासमेतो ऽमलवाक्प्रसूनैस्तुष्टाव चायः सुगुणानुरागः ।। ३ अमलगुणभरसम्यक्त्वविकसनमुपलाति समलविमीलितशङ्काङ्करकमपि लुनाति । सुजनसमागमलामो मम प्रेयसि समागमलाभो ।। *१ ॥ध्रुवपदम् । मलनिचिततनुकांक्षादलनमपि चिनोति मिलितमुनिविचिकित्साकरणमवमिनोति । सुजनसमागमलामो मम प्रेयसि समागमलाभो ।। २ ।। कुमतिजनितविमूढजननमपजहाति श्रमणजनशबलाचारलवमपिदधाति । सुजनसमागमलामो मम प्रेयसि समागमलाभो ।। *३ ॥ श्रुतधरसदमलाचारविनयमुपैति यतिनिकरकृतवात्सल्यभरणमुपयाति । सुजनसमागमलामो मम प्रेयसि समागमलाभो ॥ ४ ॥
१) AS अ ( आ ) सावरि रागे; B राग-अठाण । २) B मतिजहाति
For Private And Personal Use Only