________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः प्रबन्धः शारदशशधरवदखिलह्लादनकारकवदनसुकान्तं भूरिमनोहरनर्मकथनरसस्यन्दिलपनवरशान्तम् । कथमिह लप्स्ये दिविजवरं मानिनि मन्मथकेलिपरम् ।। ३ ।। केलिरणन्मणिगणघृणिरञ्जितहारकदम्बकभानं बालदिवाकरकाशविभूषणशोभितवत्सधरेनम् । कथमिह लप्स्ये दिविजवरं मानिनि मन्मथकेलिपरम् ॥ ४ ॥ विविधमणिरचितभूषणभूषितकोमलतरभुजदण्ड सुविशदसदमलसरसगुणनिकरनिधिनिक्षेपकरण्डम् । कथमिह लप्स्ये दिविजवरं मानिनि मन्मथकेलिपरम् ॥ ५॥ स्फुरदन्त्यकाञ्चनविरचितरसनाविवलितमध्यशरीरं वरवज्रसार शिरीषसुकोमलवामजङ्घोरुयुगेरम् । कथमिह लप्स्ये दिविजवरं मानिनि मन्मथकेलिपरम् ॥ ६ ॥ मृदुलसरलतलचटनविलोलितविमलकमलसमपादं सदमलचेलसदश्चलचश्चलमखुलकेलिविनोदम् । कथमिह लप्स्ये दिविजवरं मानिनि मन्मथकेलिपरम् ।। *७ ।। योजनपरिमितदिक्सुरभीकृतदेहभृदभिनवकामं व्याजरहितनवरसभरितामरभोगपयोनिधिसोमम् ।
५) वत्सधर + इनम् ।
For Private And Personal Use Only