________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः प्रबन्धः व्यहरदतिसुरभिभरितवसन्ते नर्तनसक्तजनेन समं निजविरहिसुरस्य दुरन्ते ॥ ५ ॥ कामिविदारणक्रकचमुखाकृतिकेतकिदन्तुरितान्ते कोमलकिसलय निचितसुमञ्जुलभूरुह निवहसुकान्ते । व्यहरदतिसुरभिभरितवसन्ते नर्तनसक्तजनेन समं निजविरहिसुरस्य दुरन्ते ॥ ६ ॥ सुरभिभरितकुसुमासवलघुसरिदभिनतभृङ्गकदम्बे सुरसविधृतफलनिकरकलितजम्बूधरणिरुह निकुरुम्बे'। व्यहरदतिसुरभिभरितवसन्ते । नर्तनसक्तजनेन समं निजविरहिसुरस्य दुरन्ते ॥१७॥ सुरगिरिनन्दनप्रभृतिमनोहरविलसदुद्यानसंघाते सुरपरिवृतललिताङ्गसुरो दिविजोत्तमविहरणपूते । व्यहरदतिसुरभिमरितवसन्ते नर्तनसक्तजनेन समं निजविरहिसुरस्य दुरन्ते ॥ ८ ॥ स्वयंप्रभावक्त्रसरोजभृङ्गो भुञ्जन्यथेष्टं दिविजातभोगान् । संत्यज्य देहं सुरदम्पती तौ। बभूवतुः पूर्व विदेहदेशे ॥ २
इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृती गीतवीतरागे ललिताङ्गस्य वनविहारवर्णनो नाम
___ तृतीयः प्रबन्धः ॥३॥
९) H धरणी निकुरुंबे ।
For Private And Personal Use Only