________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥
11811
****************************
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्माद्याताः सुमान्या हि पुनरहमदाबादपुर्यो स्वमत्या । दीक्षां तैस्तु ग्रहीता (१९६९) ग्रहरसनवभू-वैक्रमाब्दे च मार्गे ।। मासे कृष्णे चतुर्थेऽह्नि शुभसमय के हर्षसाधोः सकाशात् । साधूनां सङ्गतिर्या नहि भवति मुधा वस्तुतः स्वीकृता सा ॥७॥ पञ्चमदिवसे मार्गे मासे पक्षे सिते शुभे ॥ वत्सरे वैक्रमीये तु, (१९८६) राष्टनवभूमितं ॥ ८ ॥ शास्त्राणां ज्ञानसत्वाच्च, क्रियाकौशल्य दर्शनात् । आचार्या नीतिमूरिशा-स्तेभ्यो गणिपदं ददुः ।। ९ ।। पन्यासास्पद भूषितेन गुरुणा पात्रं समालोक्य सत् । ( १९८७ ) सप्ताष्टग्रहभूमि ने शुभकरे हर्षेण संवत्सरे || मार्गे चासितपक्ष के वसुतिथौ, वारे सिपोरे गुरौ । श्रीपन्यासपदं समर्पितमहो ! अस्मै तु शास्त्राध्वना ॥ १० ॥ सम्प्राप्य पदवीं समुन्नतयशा, भव्याञ्जनान् बोधयन् । नानादेश विहारकर्मनिपुण - स्तन्वन् प्रतिष्ठां गुरोः ॥ सिञ्चन धर्मतरुं विवेकसहितः पीयूष गिर्वारिणा । ह्येवं श्रीगुरुदेवहर्षविदुषः शिष्याग्रणीरप्यभूत ।। ११ । इत्थं काले व्यतीते (१९९९) नवनिधिनिधिभू-वत्सरे वैक्रमीये । षष्ठयां मासे च चैत्रेऽप्यधवलसहितेऽहमदाबादग्रा मे ॥ शान्तं धीरं महान्तं सरसगुणयुतं सरिवर्यः प्रहर्षः । पट्टालङ्कारयोग्यं मुनिगणवरमा चार्यवर्यं चकार ।। १२ ।। श्रीमतां हर्षवरीणां पादपङ्कजसेवकाः । अभवन्नत्र विख्याताः श्रीमन्महेन्द्रसूरयः ॥ १३ ॥ श्रीमतां शिष्यवय्र्याणां नामानीति यथाक्रमम् ।। श्रीकान्त - राजहंस - श्रीमणयः कर्मसाधकाः ॥ १४ ॥
॥ इति शुभं भूयात् ॥
For Private And Personal Use Only
***************
संक्षिप्त जीवनप्रभा
11811