________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतम
पृच्छा ॥ ॥३३॥
****
www.kobatirth.org
***********
trafiyat केनचित्कारणेन चाण्डालेन छेदिता, तद्भयात्पलाथ्य सोऽत्र मदीये गृहे समागतोऽस्ति, मया च स पुत्रत्वेन रक्षितोऽस्ति" । तत् श्रुत्वा सागरपोतेन विचारितम् - " नूनं मुनेर्वचः सत्यं जातम् " । इति विचार्य चिन्तातुरः श्रेष्ठी स्वपुरं प्रति चलितुं प्रवृत्तः । तदा नन्देन कथितम् - " भो श्रेष्ठिन्नधुनैव भवतामत्रागमनं जातं, ततः शीघ्रं पश्चात्कथं प्रस्थानं क्रियते ? किं किंचिद् गृहकार्यं त्वया विस्मृतमस्ति ?” तदा श्रेष्ठिनोक्तस्- " ममेकं महद् गृहकार्य स्मृतिपथमागतं * ततोऽहं शीघ्रं गच्छामि " । तदा नन्दो जगाद - " चेद्भवतां किंचिन्महत् शीघ्रं च करणीयं कार्यं भवेत् तर्हि लेखं लिखित्वा मास्य पुत्रस्य समर्पय । स शीघ्रमेवेतो गत्वा तं लेखं भवत्पुत्राय तत्र समर्पयिष्यति” । श्रेष्टिनेऽपि तदुचितं, अतोऽसौ ॐ लेखमेकं लिखित्वा दामनकाय ददौ । सोऽपि तं लेखं गृहीत्वा द्रुतं राजगृहनगरसमीपे समागतः ।
अथ तम्मिन लेखे तेन दुष्टेन पापिष्ठेन श्रेष्ठिना स्वपुत्रं प्रतीति लिखितमासीत् यद्- " अस्य लेखस्य समर्पयितारं प्रति त्वया निःशंकमनसा विषं देयं तस्मिन् कार्ये ममाज्ञास्ति " । अथ दामनकस्तं लेखं गृहीत्वा नगरसमीपे समागत्य विश्रामहेतोरुयानस्थस्मरदेवकुले स्थितः, मार्गश्रमतश्च तस्य तत्र निद्रा समागता ।
Acharya Shri Kailassagarsuri Gyanmandir
इतस्तस्य सागरपोतश्रेष्ठिनो विषाभिधाना पुत्री वरार्थिनी स्मरदेवं पूजयितुं तत्र समागता । स्मरदेवं च प्रपूज्य यौननावस्थाप्रादुर्भावतः सा देवं प्रति वरं ययाचे । इतस्तया तत्र निद्रितदामनकस्य पार्थे निजपितृमुद्राङ्कित लेखो दृष्टः, हस्तलाघवास गृहीतः । तत्र लिखितं चोदन्तं विज्ञाय तया चिन्तितम् -' अहो मनोज्ञरूपो युवायं वर्तते, ममापि मा नसमस्योपर्येव मोदते, अतोऽस्य युनो विषदानतो मारणमयोग्यमेव ' इति विचार्य तया कज्जलशलाकया विषशब्दोपरिस्थ
For Private And Personal Use Only
नवम
प्रश्नः ॥
॥३३॥