________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा। ॥२१॥
प्रश्नौ
॥
करिष्यामि"। एवंविधेन पुत्रवचनेन पितापि हृष्टः।
तस्मिन्नवसरे पूर्णभद्र श्रेष्ठी निजपुत्रीरक्षणतः सागरचन्द्रं निजपरमोपकारिणं विज्ञाय तस्मै तां निजां प्रियदर्शनाभिधा कन्यां ददौ । सागरचन्द्रेणापि महोत्सवपूर्वकं सा परिणीता, तया सह च स विषयसुखानि भुङ्क्ते ।
अथैकदा सागरचन्द्रः कार्यार्थ कस्मिंश्चिद् ग्रामे गतोऽभूत् , तावताऽशोकदत्तस्तस्य गृहे समागत्य मायां च कृत्वा भोगाथै प्रियदशनां प्रति प्रार्थितवान् । तत् श्रुत्वा सकोपया प्रियदर्शनया स गृहानिष्कासितः । इतस्तावत्सागरचन्द्रोऽशोकदत्तं मार्गे
मिलितः । तदा तेन दुष्टेनाऽशोकदत्तेन सागरचन्द्रायाऽसत्यवचनेनाऽशुभं तद्गृहिणीस्वरूपं मोक्तम् । तदा सागरचन्द्रेण | स्वमनसि चिन्तितम्-ध्रुवं प्रियदर्शनायामेतदकार्य न सम्भवति, अवमेघासत्यवक्ता।
अथ सागरचन्द्रो निजगृहे समागतस्तदा तया स्त्रिया निजस्वामिनोऽग्रे सर्वो वृत्तान्तो निवेदितः । तत् श्रुत्वा तेन विचारितम्-नूनमियं शीळवती सत्येव । क्रमेण चतुर्थे वयसि तौ दंपती सप्तक्षेत्रेषु धनं व्ययीकृत्य मृत्वा जम्बूद्वीपस्य दाक्षिणात्ये भरते गंगासिन्धुनद्योर्मध्यप्रदेशे तृतीयारकस्यान्ते पल्योपमस्याष्टमभागे नवशतधनुःममाणदेही परस्परमधिकस्नेहवन्तौ युगलिनी जातौ । तत्र कल्पद्रुमास्तयोर्वाञ्छितानि पूरयन्ति ।
अथ स मायायुतोऽशोकदत्तोऽपि मृत्वा सस्मिन्नेव वने चतुर्दन्तो हस्ती तयोर्युगलिनोहनरूपो जातः । एवं मायया | तस्याऽशोकदत्तस्य तियेक्त्वमभूत् ॥
॥ इति श्री खरतर० सागरअशोकदत्तकथा समाप्ता ॥ इति तृतीयचतुर्थों प्रश्नौ ॥ (३-४)
聯強染能够游游染整整部強強聯聯發藥:张继端-聯聯強:聯強
॥२१॥
For Private And Personal Use Only