________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ 11811
মু
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्याः - हे भगवन् ! केन कर्मणा प्राणी बहुवेदनार्तो भवति ? वा केन कर्मणा वेदनाविमुक्तो भवति : केन कर्मणा पञ्चेन्द्रियो भवति ? केन च कर्मणा स एकेन्द्रियो भवति ॥ १० ॥
गाथाः - संसारोवि कह थीरो (४७), केणवि कम्मेण होइ संखित्तो (४८) । कह संसारं तरिडं, सिद्धिपुरं पावइ पुरिसो (४९) ॥ ११ ॥
व्याख्याः - हे भगवन् ! कथं संसारः स्थिरीभवति ? केन कर्मणा च स संसारः संक्षिप्तो भवति ? तथा पुरुषः संसारसागरं तरित्वा कथं सिद्धिपुरीं प्राप्नोति ? ॥ ११ ॥
गाथाः - सव्वजगजीवबंधव, सव्वन्नू सव्वदंसि मुणिंद । सव्ववच्छल भयवं कस्स य कम्मस्स फलमेयं ॥ १२ ॥
व्याख्या:- हे सर्वजगज्जीवबंधव ! हे सर्वज्ञ ! हे सर्वदर्शिन् ! हे मुनीन्द्र ! हे सर्ववत्सल । हे भगवन् ! कस्य कर्मस्यैतत्फलं तत्कथयत ? ॥१२॥
गाथा: - एवं पुट्ठो भयवं, तियसिंदनरिंदनमिगपयकमलो । अह साहिउं पयत्तो, वीरो महुराइ
वाणी ॥१३॥
व्याख्या:- एवम् - अमुना प्रकारेण पृष्टः सन् भगवान् महावीरो मधुरवाण्या कथयितुं प्रवृत्तः । किं विशिष्टो वीरः १ त्रिदशेन्द्रनरेन्द्रनमितपदकमलः ||१३||
For Private And Personal Use Only
**********************************
प्रश्नमूल
गाथा: "
11811