SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीगौतमपृच्छा ॥ ॥१०८॥ चत्वारिंशत्तमप्रश्नः॥ 器聚张器樂張張緊器端游浆器器部強张张张张张张张 | तत्र देशनानन्तरं तं गुरुं प्रति वल्लुककृषीवलः पृच्छति- हे भगवन् ! ममायं पुत्रः पंगुः शरीरे रोगी निधनश्च कथं जातः?" तदा गुरुः कथयति-“अनेन तव पुत्रेण पूर्वजन्मनि कृषिकरणे तृषार्ताः क्षुधाश्चि बलिवर्दा अतीव वाहिताः । तेषां सन्धिषु घाताश्च कृताः । तदुष्कर्मणश्च तेन पश्चात्तापोऽपि न कृतः । स ततो मृत्वायं तव पुत्रः पंगू रोगसहितश्च जातः । तत् श्रुत्वा स बल्लूककृपीवलो जातवैराग्यो निजपापानि क्षामयित्वा दीक्षा गृहीत्वा विहाँ लग्नः । तस्य पुत्रः कर्मणोऽपि श्राद्धधमै प्रतिपाल्यान्ते च स्वर्गभाम्बभूव । इति कर्मणकथा समाप्ता ।। अथैकचत्वारिंशत्तमप्रश्नोत्तरमाह प्रश्न:-( अथ गौतमस्वामी पृच्छति-हे करुणासिन्धो! हे जगचिन्तामणे! हे भगवन् ! केन कर्मणा स एव जीवः सुरूपवान् भवति ? ४१) उत्तरः-(तदा श्रीवीरप्रभुः कथयति-हे गौतम !) गाथा-सरलसहावो धम्मिक-माणसो जीवरक्खणपरो य । देवगुरुसंघभत्तो, गोयम ! स सुरू | वयो होइ ॥ ५५ ॥ व्याख्या-यः पुरुषश्छत्रदण्डवत्सरलस्वभावो भवति, पुनर्यस्य धर्मकर्मणि मनो वर्तते, पुनयाँ जीवो देवस्य संघस्य गुरोश्च भक्तिं करोति स पुरुषो हे गौतम ! सुरूपवान् भवति ॥५५॥ ॥१०८॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy