SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पेटिकादौ निधाय तां पेटीं स्वस्मिन्नेवाचे स्थापयित्वा पञ्चशतैस्सामन्तैः परिवृतस्स्वयमश्वमारुह्य मगधदेशं प्रति जगाम । ते चाङ्गरक्षकाः राज्ञा समादिष्टाः सर्वतो भावेन तदक्षां चक्रुः । कदापि तत्पार्श्व न त्यजन्ति स्म । अथैकस्मिन दिने मार्गे : गच्छन् राजकुमारः अर्धं वाहयन् पार्श्वरक्षकेभ्यः पुरुषेभ्यो किंचिदग्रे निःसृत्य गच्छतिस्म ततः कियति दूरवर्तिनि वनान्तरे अश्वं त्वरितगतिं विधाय झटित्यभयकुमारसमीपे गत्वा तं नमस्कृत्य तां प्रतिमां च दर्शयिस्वा तेनाज्ञप्तस्तूर्ण वनान्तरमगमत् । अथातिक्रान्तेषु बहुषु देशेषु एकस्मिन् सघने वने | सप्तक्षेत्र्यां गतं खनित्वा तत्सर्वं धनादिकं तस्मिन्निधाय स्वयं यतिलिङ्गं कृत्वा यावत् सामायिकमुञ्चारयितुमारेभे तावदाकाशस्थितया कयाचित् देवतया उच्चैरित्थं प्रोक्तं, " हे महामाग ! | यद्यपि त्वं महासत्वस्तथापि सांप्रतं दीक्षां मा घेहि यतो अद्यापि ते भोगफलरूपं कर्म | शेषमस्ति अतस्तद्भुक्त्वा कालान्तरे व्रतं गृहीयाः यतो भोग्यं कर्म तीर्थंकृतामप्यवश्यं भोक्तव्यम् । तस्मात हे महात्मन् ! अनेन दीक्षाग्रहणरूपाग्रहेणालं यतो गृहीतमपि दीक्षा For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy