________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह ॥ ३६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
होलिकाम् | समर्थाऽजनि लोकास्तां, शिलां दृष्ट्वा पुरोपरि ॥ ४७ ॥ जाता भयद्रुताञ्चक्रु-बेकिं तदा पिशाचिनी । सा कस्यचिच्छरीरे चावतीर्योवाच भो जनाः ! ॥ ४८ ॥ युग्मम् || पूर्वं कुलद्वयस्याहं, वत्सला भांड-भारडान् । विहाय मारयिष्यामि पुरस्थानपरान् जनान् ॥ ४९ ॥ ततो मृत्योर्जना भीताः सर्वे स्वजीवितस्य च । अन्योपायमनालोक्य, भांडभावं समाश्रिताः ॥ ५० ॥ मुक्तसज्जनमर्यादा, असत्यवाक्यभाषिणः । एवं भांडा जना जाता, दुष्टवाजित्रवादिनः ॥ ५१ ॥ तत्प्रभृति च सर्वत्र प्रवृत्तं प्रतिवत्सरम् । तद्दिने होलिकापर्व, कर्मबन्धन कारणम् ॥ ५२ ॥ बहिष्कृतं जनैः शिष्टे-रशिष्टैश्व समादृतम् । तदधुनाऽपि कुर्वन्ति, नेष्टवासनया जनाः ॥ ५३ ॥ पुनर्भस्मरज : पंक- मूत्राद्यमेध्यवस्तुभिः । मलिनदेहिनो जाता, ग्रथिला भरडा जनाः ॥ ५४ ॥ प्रतिवर्ष ततो होली - दिनात् द्वितीयवासरे । धूलिसंहरिकापर्व. प्रवृत्तं सा ततो गता ।। ५५ ।। कथ्यते होलिकापूर्व-भवोऽथ पाटलीपुरे । ऋषभदत्तनामाऽभूत् श्रेष्ठी चन्द्रानना प्रिया ॥५६॥ तयोर्द्वी तनुज चैका, देवी नाम्नी सुताऽभवत् । सा च लावरूपादि-गुणैरतीव शोभिता ॥५७॥ पितृभ्यां पाठिताऽथ स्व-मात्रा समं चकार सा । सामायिकादिसत्कृत्यं, व्रतनियमपालनम् ॥५८ वसन्ति तद्गृहासने, मिथ्याविनो जनाः सदा । तत्पुत्रीभिः समं देवी, सा चोत्तिष्ठति तिष्ठति ॥५९॥ वाचयन्ति द्विजा यत्र, कथां तत्र कदापि सा । कथामपि शृणोति स्म, तत्संसर्गवशात्पुनः ॥ ६० ॥ यद्यपि श्राविकाधर्म, पालयति तथापि सा । मिथ्यात्खस्यादरं चक्रे मिथ्यात्विजनसंगतः ॥ ६१ ॥ ज्येष्ठे च श्रावणे मासे, गणगोराचनाद्यथा । सुन्दरवरसंप्राप्ति - धनधान्यादिकं भवेत् ॥ ६२ ॥ एतादृश्यः कथास्तस्यै, रोचते पुनरेकदा । तयाseed धर्मे, देवोऽस्ति वीतरागकः ॥ ६३ ॥ कमपि न करोत्यर्हन्स सुन्दरमसुन्दरम् । सांख्यादिदर्शने ब्रह्मा,
For Private and Personal Use Only
होलिका पर्व- कथा
॥ ३६ ॥