________________
Shri Mahavir Jain Aradhana Kendra
द्वादशपर्वकथा-संग्रह
॥ २१ ॥
DDCDDC
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४ ) अथ पौषदशमीपर्व -कथा ।
प्रणम्य जितमोहारिं, पार्श्वनाथं जिनेश्वरम् । अर्हन्तं कथ्यते पौष - मेचकदशमीकथा ॥ १ ॥ इहैव भरतक्षेत्रे, मगधविषयेऽस्ति च । धन-धान्यादिसंपूर्णा, चम्पानाम्नी महापुरी ॥ २ ॥ तस्या ईशानकोणेऽस्ति, चैत्याळयं मनोहरम् । पूर्णभद्राख्ययक्षस्यो -पवनेन विशोभितम् ॥ ३ ॥ अथ चरमतीर्थेशः, ज्ञानदर्शनधारकः । गौतमादिगणाधीशवाचंयमसमन्वितः ॥ ४ ॥ पादाब्जैः पावयन् भूमि, भव्यांश्च प्रतिबोधयन् । तत्राऽन्यदा महावीर स्वामी च समवासरत् ||५|| युग्मम् || श्रोतुं जिनोपदेशं च, बन्दनाथं जिनेशितुः । मगधाधिपतिस्तत्र, समागतो महोत्सवात् ॥६॥ तिस्रः प्रदक्षिणी कृत्य, समवसरणे प्रभुं । स्तुत्वा स्तोत्रैर्यथास्थानमुपविष्टो नृपः स च ||७|| प्रारेभे देशनां स्वामी, योजनगामिभाषया । संसारसागरनूड - द्रव्यात्मोद्धारकारिणीम् । ॥ ८ ॥ यथा – “ जीवदयाह रमिज्जह, इंदियवग्गो दमिज्जइ सयावि । सचं चैव वदिज्जर, धम्मस्स रहस्समिणमेव ॥ ९ ॥" इत्यादिदेशनां श्रुत्वा, केचिद्रिकतां गताः । केचित्श्राद्धव्रतं केचित्साधुधर्म ललुः पुनः ||१०|| तदानीं गौतमस्वामी, नत्वा बीरजिनेश्वरम् । पप्रच्छ भव्यजीवानामनुग्रहाय पर्षद ||११|| पौषकृष्णदशम्याश्च महात्म्यं कथ्यतां प्रभो ! श्रुत्वा चैवं महावीर स्वामी प्रोवाच गौतमम् ||१२|| पौषकृष्ण दशम्यां च पार्श्वनाथ जिने शितुः । जन्मकल्याणकं चास्ति, जीवकल्याणकारकम् ॥१३॥ द्विसंध्यावकं कार्य, aftने देववन्दनम् । भूशयनं त्रिशुद्धया च ब्रह्मचर्यमपालनम् ॥ १४ ॥ चैत्ये स्नात्राष्टषा सप्त-दशधा aise नोत्सवम् । प्रभावनं विधातव्यं, रथयात्रादिकं पुनः || १५ || गुरोः पार्श्वे समागत्य श्रोतव्या धर्मदेशना । कार्य
For Private and Personal Use Only
पौषवशमी पर्व-कथा
॥ २१ ॥