________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वादशपर्वकथा-संग्रह
॥ २०
॥
सचक्रीवासुदेवाश्च, प्रतिनारायणाः पुनः । बलदेवा नराधीशा, मानवा अपरेऽपि च ॥९६ ॥ कर्मणा पापिनाऽनेन, ते INौनएकादशी सर्वेऽपि विडम्बिताः । कियन्मात्रो वराकोऽयं, पुरस्तात् तस्य कर्मणः ॥९७॥ अरे जीव ! क्षमस्व ख-मुदितं कर्म तेऽस्ति पर्व-कथा यत् । तद् भोगेन विना नैव, पक्षीयते कदाचन ॥९८॥ “लद्धं अलद्धपुवं, जिणवयणसुभासि अमयभूयं । गहिओ सुग्गइमग्गो, नाई मरणाओ बीहेमि ॥९९॥" तपस्तीवघरट्टोऽयं, क्षमामर्कटिकान्वितः । धृतिहस्तो मनःकीलः, कर्मधान्यादि चूर्णयेत् ॥१००॥ सोऽय देवो विभङ्गाख्य-ज्ञानेनाक्षुभितं मुनिम् । ज्ञाखाऽकरोद्विशेषेणो-पसर्गानतिदुस्सहान् ॥१०१॥ क्षपकश्रेणिमारूढः, केवलझानदर्शनम् । संपाप्य सुव्रतो भव्यान् , प्रतिबोध्य शिवं ययौ ॥१०२॥ नेमिनाथमुखा देव, श्रुखा ह्येकादशीव्रते । श्रीकृष्णवासुदेवाद्या, बभूवुः सादरा जनाः ॥१०॥ भो ! भो ! मन्यजना ! एवं, श्रुखा | कल्याणमिच्छुभिः । युस्माभिस्तु समाराध्या, सा मौनैकादशी सदा ॥१०४॥ खरतरगणाधीश-श्रीजिनरत्नसूरयः ! तेषां | | शिष्यगणिप्रेम-मुनेः समाग्रहेण च ॥१०५॥ पाठकलब्धिनाऽकारी-यं मौनैकादशीदिने । जयपुरे च बाणाभ्रा-भ्रनेत्र(२००५)वत्सरे कथा ॥ १०६॥ युग्मम् ॥
।। इति मौनएकादशीपर्व-कथा समाप्ता ॥
porncomcomecamera
॥२०
॥
For Private and Personal Use Only