________________
Shri Mahavir Jain Aradhana Kendra
ध्धान्त॥ ३३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ कदाचिचग्रामस्य राजमहिषी गदग्रस्ताऽभवत् । ततो भूपो भिषक्पुत्रमाहूय पप्रच्छ - मो बैद्यवर ! मम महिष्या रोगापनयनस्य त्वि शक्तिवेद्विद्यते प्रयच्छौषधम् । तदाऽमृतव्ययाद् व्याधिनिवारणे स्वाऽशक्तिं विज्ञाय मदसाध्योऽयं रोगस्तथाऽमृताऽपव्यय वृत्तान्तं कथिते तन्मयात् सकोपेन राज्ञा स निजदेशाद् बहिष्कृतः । स चाऽविचारितकारी चिकित्सक चूडामणिरसां दुःखमन्वभूत् । तथैवेदममृतसदृशं दुरापं नरत्वं प्राप्य ये जना वृथा गमयन्ति, ते दुःखभागिनो भवन्ति ॥ ७७ ॥ उक्तमपि — अमृत घड़ो ते नरवपू, खोय अकारज ठाम । सकल जन्म ते हारिओ, मूर्ख वैद्य सम काम || १॥ अपि चस्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते, पीयूषेण प्रवरकरिणं वाहयत्यैन्धभारम् | चिन्तारत्नं विकिरति कराद् वायसोड्डायनार्थ, यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ॥ १ ॥ अथ सरलजडबुद्धि शिष्योपरि ७७ - कथा -
शिष्यान् वक्ति विलम्बिता: क हि गुरुः प्रोचुस्तु वीक्षामहे, तन्नाट्यं हि नटस्य भो ! जिनमते नैवेक्षणीयं कदा | सत्यं तेऽपि तथेति सद्गुरुतरं प्रातास्तदा कालके, नव्या चाऽपि कृतं न्यषेधि तदतो नाऽग्रे त्वया दृश्यताम् ॥ ७८ ॥
कस्मिश्चिद्दिव से गुरुः शिष्यानुवाच - यूयमेतावन्तं कालं काssस्त १ तेष्वेको मुख्य शिष्य उक्तवान्-भगवन् ! मध्येवर्त्म नटा नृत्यन्ति स्म, तान् प्रेक्षितुं प्रवृत्तः । गुरुणोक्तम्- अस्मज्जैनशासने नाटकादिप्रेक्षणं प्रतिषिद्धमस्ति । तदा शिष्यस्तद्वचनमुरीकृत्य नाटकदर्शनं निन्द्यमिति मत्वाऽपि पुनः कतिपयैरेवाऽहां भिर्भिक्षां भिक्षितुं जगाम, तत्र विलम्बे जाते समागते च तस्मिन् भूयोऽपि गुरुणा पृष्टः कस्माच्चि
For Private and Personal Use Only
शतकम्
॥ ३३ ॥