SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूपः पृच्छति मांसमौल्यमनुगान् प्रोचुश्च तेऽल्पं सुतो ऽनल्पं वक्त्यभयो निवारयति भोस्तं दर्शयामि प्रभो ।। गत्वा सर्वगृहे नृपाय हृदिजं तद्देहि नाऽऽतं पलं, ग्राचं लाहि धनं न तेन तदितो लात्वाऽर्पितं भूपतेः ||७४ ।। अथैकस्मिन् दिवसे श्रेणिक नृपः सदसि स्वसामन्तान् पप्रच्छ-भोः ! किमद्यश्वो हीनमूल्यं वस्तु लभ्यते ? ततस्ते प्रोचुःराजन् ! मांसमल्पमूल्येन प्राप्यते । तत्क्षण एवं राजकुमारोऽमयः कथयामास - राजन् ! मांसस्य महन्मूल्यं वर्तते । ततस्तत्पित्राऽभिहितं त्वमर्म कोऽसि, मूल्यस्याऽल्पाऽनल्पत्ये किं वेत्सि ? अभयकुमारः पुनरप्यूचे नहि राजन् ! अस्य निर्णयमल्पेवेव दिवसेषु प्रत्यक्षं कारयिष्यामि । पश्चादभयकुमारेण राजानं प्रत्युक्तम् – पितः ! आमयच्छलेन भवता सौध एव स्थातव्यं, परिषदिच नाऽऽगन्तव्यम् । ततोऽमयेनाखिलेऽपि पत्तने पटह उद्घोषित:-श्रेणिकभूपो व्याधिपीडितोऽस्ति । तदाऽभयकुमारेण युक्त्या सर्वसामन्त गृहे गत्वा निवेदितम् - सामन्तहृन्मांस नृपोऽश्नीयात्तदा निरामयो भवेदिति भिषगुभिर्गदितमस्ति, तस्माद्देवस्तन्मांसमिच्छति, भवन्तश्च पलं पलं छेदं छेदं निजहृन्मांसं ददतु । तनिशम्य सर्वेऽपि मिथो मुखं वीक्षमाणाः प्रोचुः - नृपाङ्ग ! यथेच्छं धनं प्रयच्छामः परं स्वात्माधारं मांसदानन्तु दुष्करमेव सर्वेषाम् जीवानां । पश्चादाग्रहेण तेभ्यो द्रविणं गृहीत्वा महीपतिमदर्शयद चकथथस्वमांसाऽर्पणमसंभवि लोके परेषान्तु प्रयासमन्तरेण लभ्यमपि । समुदन्तं श्रुत्वा समेऽपि सामन्तास्तूष्णीं भूत्वा समुपाविशन् ॥ ७४ ॥ नृपः स्वात्मजगदितं वचनं युक्तियुक्तं विज्ञाय जगाद - स्वमांसं दुर्लभं लोके, लक्षेणाऽपि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम् ॥ १ ॥ For Private and Personal Use Only
SR No.020322
Book TitleDrushtant Shatakam
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1941
Total Pages93
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy