SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिवेषयन्ती विससमर्थ, उत मम भाग्यदोषेणैव श्राणा पाय सप्रभृतीनि व्यञ्जनानि च किं स्थूलिका रूपेण संपन्नानि १ ततः श्वश्रवामिहितं नाई व्यस्मार्षम्, न चापि क्षैरेवायवाग्वादिः स्थूली परिणता, किन्तु वदनं वीक्ष्य स्थासकः स्थापितः, तस्मात्स्थूलीमेत्र जग्धा सन्तोषेण सहर्ष समुत्तिष्ठ ।। ६२ ।। तयोरुक्तिप्रत्युक्ती यथा दोहा - एके भाणे लापसी, एके भाणे धूली । केतो सानु साबकी, परसण वाली भूली ? ॥ १ ॥ तदुत्तरं नहि है सासू साबकी, न परसण वाली भूली । मुख देखी टीलुं किभुं मार गटागट थूली ||२|| स्वल्पोऽपि नियमोडतिलाभाय संपद्यते तत्रैकश्रेष्ठिनः ६२-कथा शीर्ष वीक्ष्य ततोsपि सद्गुरुमुखादेतद् गृहीतं व्रतं, चक्री त्वेकदिने गतः स मृतिकाखन्यां वणिक पृष्ठगः । द्रव्यं तत्र हि निर्गतं स च वणिक दृष्येत्यवग् दूरतः, त्वं मा याहि गृहाण चार्धविभवं लात्वाऽऽलये सोऽगमत् ।। ६३ पुरा कस्मिगिरे धर्मगुरुरागात, तदा बहुभिर्लोकैर्वतं गृहीतं, वेष्वेकेन वणिजा कुलालमस्तकं वीक्ष्यैवाहमयीति नियमो गृहीतः पश्चात्स निरन्तरं कुलालकपालं विलोक्यैत्र भोजनं कुरुते स्म । एवं कुर्वनेऽस्मिन्नहनि कुम्भकारो मृत्या मानेतुमगमत, स च वणिक् तद्गृहमागतस्तदानीं तद्भार्थमा तदुदन्तं लब्धा पुनर्मृत्खननस्याने ऽपासीत्, तस्मिन्नेत्र क्षणे कुलालो मृत्तिकां खनन् द्रव्यभाण्डं प्राप । ततः कुलालमस्तकं विलोक्य श्रेष्ठी कथयामास-दृष्टं रे दृष्टं, तनिशम्य चक्री व्यचिन्तयदनेन द्रव्यभाण्डो विलोकितः, अतस्तत्रैव स्थितः समाजुहाव वैश्यम् । 'यदानन्दमेत्रानन्दं लभ्यमेत्र लब्धमिति ब्रुवंस्तदभिमुखं प्राधावीत्, आदचार्ध ते वित्तमर्धश्च ममेति श्रुत्वा वणिक परावर्तिष्ट द्रव्यार्श्वमादाय गृहमागतः । तस्माद् यादृशस्तादृशः कोऽपि नियमो नूनं फलप्रदो जायते ।। ६३ ।। कथितमपि For Private and Personal Use Only
SR No.020322
Book TitleDrushtant Shatakam
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1941
Total Pages93
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy