SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दृष्टान्त॥२४॥ शतकम् अथ संसर्गेण दोषगुणा भवन्ति तत्र द्वयोः शुकयो: ५७-कथानकम्दृष्ट्वैकं नृपतिं वने निगदिताः कीरेण भिल्लास्तदा, चाकाऽऽशु गतोऽग्रके हि मुनयोऽन्येनाऽपि भात्यईकः। तेऽभ्यागत्य वदन्ति तिष्ठ नृपते! वाक्यान्तराद्विस्मितः, सोऽवक् संगगुणा हितस्य पितरावको मम स्तस्तथा ५८ कस्मिश्चिनगर एकदा कश्चिद्राजा वक्रशिक्षितवाजिनमारुह्य वनं गतः। तत्रान्तरे प्राप्तभिल्लसंघे कोऽपि तस्करकर्मप्रदर्शकः कीर आसीत, स भूपालं प्रेक्ष्य वक्तुमारेमे-भोः! धावत धावत, यूयं लुण्टतैनमिति वाचं कर्णपुटीकृत्य राजा घोटकं प्रपलाय्य ततः पलायांचके । किश्चिदध्वानं गत्वा कस्यापि पेस्तपोवनं प्राविक्षत, तत्रापि पञ्जरगतः शुको राजानमायान्तं विलोक्य तापसानुवाचभो आतिथेयाः! एप नरपतिर्युष्मदावासं प्राप्तः, ततोऽस्प बान्तस्य सत्कारेणोपकुरुवं, तदाकये भूपतिस्तुष्टोऽभवत् । तदानीं सर्वे मुनयः शीतोदककुम्भहस्ता विष्टरपाद्यचन्दनमाल्यैर्महीपति समपूपुजन् । राजाऽपि विधिप्रयुक्तसत्कारं शिरसा परिगृह्य जगाद-किरातसंघे कोऽपि शुको मां निभाल्योतारं चुकोश, लुण्ठत लुण्टतैनमिति, एष च कीशो मधुरवाक शुक इति शशंस । तदुक्तं निशम्य । कीरोऽवग्-राजन् ! संसर्गज एष गुणः, आवयोः पितरावेको परं स तस्कराणां मध्ये तिष्ठति, अहश्च मुनिषु निवसामि, तस्मादिद संगतिफलम् ॥ ५८ ॥ तदोक्तं तेन शुकेनमाताऽप्येका पिताऽप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स च नीतो गवाशनैः ।।१।। गवाशनानां स गिरः शृणोति, अहाच राजन् ! मुनिपुगवानाम् । प्रत्यक्षमेतद् भवतापि दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥ २॥ ॥२४॥ For Private and Personal Use Only
SR No.020322
Book TitleDrushtant Shatakam
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1941
Total Pages93
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy