________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम्
॥२१॥
यतो युवा पद्भया गच्छथः, सहानीतोऽश्वः किं युष्मम्यं पयो दास्यति ? अत्रोपरितनेन कथानकेन प्रतीयते यल्लोको बहुभाषी, | स्वाभाविक हि जगतां यत्कस्मिधिकर्मणि दोपरष्टिर्भवति तथाभूतान् जनाननेकान् कथं संतोषयति सज्जनः । ५१॥ अतश्चोक्तम्सर्वथा स्वहितमाचरणीय, किं करोति हि जनोबहुजल्पः?। विद्यतेचनहि कश्चिदुपायः, सर्वलोकपरितोषकरोयः१
अथाऽनताचरणेन नरकवासो नियतो भवति तदुपरि वसुनपस्य ५१-प्रवन्धःतान्संपाठ्य परीक्षणं कविवरः कृत्वा त्रयाणां मृतो, वादं पर्वतनारदौ च वदती राज्ञः सभायां गती।। ज्ञात्वा संत्यदृढं वसुं नरपतिं मात्राऽऽग्रहाद्वक्ति तौ, मिश्रं वाक्यमतो गतः स नरके मृत्वा नृपः सप्तमे ॥५२॥
पुरा क्षीर कदम्बकनामोध्याय: स्वसुतं. द्वितीयं नारद, तृतीयं वसुराजश्शाध्याप्य ममार । पुनर्वसुनामको नृपः पित्र्य | सिंहासनमाचक्राम, नारदश्च विद्याधरोऽभवत्तथा पर्वतोऽपि निजपितुासपीठमधितष्ठौ । अथैक्दा पर्वतनारदयोमध्ये अजशब्दमधिकृत्य वादः समजायत । तत्क्षण उभावपि खनिर्णयार्थ सतीर्थ्यस्य वसुनृपतेः परिषदि जग्मतुः, पृष्टवन्तौ चाऽजशब्दार्थम् । तदानीमुपाध्यायान्याऽऽग्रहेण भूपालो मिश्रवचनं जगौ-अजशब्दाभिधेयौ द्वौ, तयोरेकस्तु त्रिवर्षप्राचीनशालिः, द्वितीयस्तु छागोडजशब्दवाच्यः, इत्थं मिश्रवाक्यव्याहरणेन स महीपतिर्देवैः सिंहासनादधः पातितो मृतश्च सप्तमे नरके गतवान् ॥५२॥ भण्यतेऽपि
परोपरोधादतिं निंदितं वचो, ब्रवन्नरो गच्छति नारकी पुरीम् ।। अनिन्द्यवृत्तोऽपि गुणी नरेश्वरो, वसुर्यथाऽगादिति लोकविश्रुतः।।१॥
॥ २१॥
For Private and Personal Use Only