________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
• एकस्मिन् दिने प्रभाते कश्चिद् बुधो राजपरिषदि स्वं याचितुमभ्येत् । परमस्य नृपतेः प्रतिज्ञाऽऽसीत् यदि कोऽप्यर्थी धनं याचितुमुपागच्छेत्तर्हि स्वकृचिकोपरि दक्षिणहस्तपरामर्शेन यावन्तः कचाः प्राप्ताः स्युः तावत एव दीनारान् प्रयच्छेयम् इत्यस्य कोविदस्य सभामुपगते भूपतिर्हस्ते स्वकूर्चिकाया एक एव केशः संप्राप्तस्तदा राज्ञा कवि प्रत्युक्तम्- भो हतभाग्यशेखर ! गृहाण दीनामेकमिति । प्राशोऽवक - कथम् १ महीपतिः प्राह-यतो मम करे कूर्चिकाया एक एव कचः समागतस्तस्मादेकामेव स्वर्णमुद्रामादत्स्व, यदि चास्मादधिकाः स्युस्तर्हि तुभ्यमधिका दद्याम् । तच्छ्रुत्वा कविरश्चकथत्
स्वदीया दंष्ट्रिका राजन् 1, मदीये चेत्करे भवेत् । तदा भाग्यमभाग्यं वा, ज्ञायेत स्फुटमेव च ॥ १ ॥ अर्थात् तत्र कूर्चिका मम हस्तगता भवेत्तदाऽहं निजभाग्यं विद्यामित्येवं समयप्राप्तं वचनं निशम्य बुधोऽयमिति परिज्ञाय प्रीतः सन् प्रजानाथो विप्रमाहूय दानार्थं संकल्पितुं जलं जग्राह । तत्पयः प्रपश्यन्नेव स भूपतिगुणवर्णनात्मकं काव्यशतं चकार । तदनन्तरं प्रभूतं द्रविणश्च नीत्वा गतः ॥ ४८ ॥ तत्काव्यानां द्वौ श्लोकौ निदर्शनरूपेण प्रदर्श्यते—
निवसतु तव गेहे निश्चला सिन्धुपुत्री, प्रविशतु भुजदंडे चण्डिका वैरिहन्त्री ।
तव वदनसरोजे भारती भातु नित्यं न चलतु तव चित्तात्पादपद्मं मुरारेः ।। १ ।। यो गंगामतरत्तथैव यमुनां यो नर्मदां शर्मदां, का वार्ता सरिदम्बुलंघन विधेर्यश्चार्णवांस्तीर्णवान् । सोऽस्माकं सहजाऽऽश्रितोऽपि सहसा दारिद्र्यनामा सखा, त्वद्दानाम्बुसरित्प्रवाहलहरी मग्नश्च संभाव्यते ॥ २ ॥
For Private and Personal Use Only