________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
हारोहणवारितं नृपतिना भृत्यः कथं कार्यतां ?, वाम गच्छति मुच्यतामिह गतौ ग्राम्यौ तदाऽऽक्रोशितौ। वक्त्यकः किमु? मारितोऽपरनरोभीत्याऽऽशुमारक्षतु, गत्वाग्रे यदि गम्यतां स्वरगतमुक्तःसुखीसोऽभवत्॥३३॥
केनापि भूभृता वाटिकाया मध्ये सौषः कारितः स्वनियोज्यांश्च समादिदेश-यत्कोऽप्यस्मिन्भवने न प्रविशेत् । तदा द्वा:स्थैः पृष्टम्-अजानन कश्चित्प्रविशेत, किमु तस्य विधेयं तदानीं नृपोऽब्रवीत् सोऽपि इन्तव्य एव न तु मोच्यः । तनिशम्य दौवारकाः सप्रश्रयं निवेदयामासुः-राजन् ! कठोरोऽयं दण्डः । तदनु नृपः समचक्थत्-यदि प्रवेशकः प्रतीपपाद एव व्रजेत्तर्हि स हेयः । एकदा प्रस्तावे द्वौ ग्राम्यजनौ विस्मृत्य तत्राऽऽजग्मतुः । तदानीं राजपुरुषैनिगृहीतयोस्तयोरेको वाचाटो जीवनाशं नष्टोऽपरो भयभ्रान्तो मां बायध्वमित्यभाषत । अथ च प्रतीपगमनानपानुचरैविसृष्टः स्वबान्धवेषु प्राप्तः सुखमुवास ॥३३॥ उक्तश्चापिपापं कृत्वा पुनः पश्चात्, यो निन्दति नरोत्तमः । स सुखी जायते लोके, यथैको हऱ्यावीक्षकः ॥१॥
अविचार्य मन्दधिषणे विश्वासवाक् न देया तत्र ३३-कथानकम्भूपाऽऽभरिसुते सदाभिरमतो रोदित्यभीरांगजा, वक्त्याः ! रोदिषि किं? भवद्विरहतः सत्यं धवैको हि नौ। याम्यागच्छसि विटसमं निशि सखे मार्गे मिलित्वा गता, श्रुत्वार्याञ्चलहेतुकां वरमतो ज्ञात्वा गता स्वालये ॥३४॥
एका राजकन्याऽपरा भीरकन्या चोमे सख्यावास्ताम्, मिथः संगते चिक्रीडतुः । एकदा बाष्पं विमुंचती साऽभीरवाला नृपकन्यया पृष्टा-किनिमित्तं रोदिषि? अथैनां सा बमाण--राजसअनि परिणीता बहिनिष्क्रमितुमक्षमा सती त्वं मया सह नोपस्थास्यसे, तत्त्वद्वियोगपीडिता रोदिमि । तदानीं राजदुहिताऽपि तस्यै यो हि त्वद्भर्ता ममापि स एव, इत्थं वचनं ददौ। जात्वामीर
For Private and Personal Use Only