________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ सर्गः]
धर्मशर्माभ्युदयम् । . युष्मत्पदप्रयोगेण पुरुषः स्याद्यदुत्तमः । अर्थोऽयं सर्वथा नाथ लक्षणस्याप्यगोचरः ॥ १२ ॥ तथा मे पोपिता कीर्तिस्त्वदर्शनरसायनैः । यथास्तां त्रिदशावासे मात्यैनन्तालयेऽपि न ॥ ५३ ॥ निर्निमपं गलद्दोघं नियंपेक्षमपक्ष्मलम् । ज्ञानचक्षुः सदोन्निद्रं न स्खलत्येव ते क्वचित् ॥ ५४ ॥ सिद्धमिष्टं त्वदालोकाज्ज्ञातं च ज्ञानिना त्वया । तत्पुनः प्रोच्यतेऽस्माभिः शंसितुं जाड्यमात्मनः ॥ १५ ॥ इयं प्राणप्रिया पत्नी समयेऽपि स्थिता सती । निप्फलेव क्रियात्यर्थमनपत्या दुनोति माम् ॥ ५६ ॥ अदृष्टसंततिः स्पष्टमिष्टार्थप्रसवामपि । इमामहं महीं मन्य केवलं भारमात्मनः ।। ५७ ॥ चतुर्थपुरुषार्थाय स्टहयालोर्ममाधुना । अदर्शनायते मोहान्नन्दनस्याप्यदर्शनम् ॥ १८ ॥ दशामन्त्यां गतस्यापि पुंसस्तावन्न शस्यते । प्रदीपस्यव निर्वाणं यावन्नान्यं प्रकाशयेत् ॥ ५९ ॥ तत्कलत्रे कदात्रैव रसलीलालवालके । संपत्स्यते ममोद्भिन्नमनोरथतरोः फलम् ॥ ६ ॥ श्रुत्वेति प्रत्युवाचेदं मुनि पालकर्णयोः । लग्नदन्तद्युतिव्याजात्सुधाधारा इवोगिरन् ।। ६१ ॥ नेक्चिन्ताक्लमस्यासि वस्तुतत्वज्ञ भाजनम् ।
नेत्राप्यं क्वचित्तेजस्तमसा नाभिभूयते ॥ ६२ ॥ १. भवदीयचरणारविन्दसंबन्धेन पुरुषो जन उत्तमो भवति. अयमों लक्षणस्य व्याकरणशास्त्रस्याप्यगोचरः. व्याकरणे हि युष्मत्पदयोगेन मध्यमः पुहपो भवति, न तूत्तमः २. स्वर्गे; त्रिदशमिते आवासे गृहे च. ३. पाताले; असंख्याते गृहे च. अतिपुष्टा कोतिः स्वर्ग पाताले च न मातीति भावः. यश्चातिपुष्टोऽसंख्यातेष्वपि सदनेषु न माति तस्य त्रिदशमितेश्वावासेषु मानं दुरापास्तमेव. ४. मोक्षः; नाशश्व.
For Private and Personal Use Only