________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमहावीरस्वामिस्तोत्रम् ।
१०१
कुसमयतरुमालाभङ्गसंहारवायो _कुनयकुवलयालीचूरणे(चूर्णने) मत्तनाग । तव गुणकणगुम्फे मे परीणाममित्थं
विमलमपरिहीणं हे महावीर पाहि ॥ २६ ॥ अनयनिबिडे पीडागाढे भयावहदुःसहे
विरहविरसे लज्जापुञ्ज रमे भवपञ्जरे । निरयकुहरंगामी हाहं न सिद्धिमहापुरी
सरलसरणिं सेवे मूढो गिरं तव वीर हे ॥ २७ ॥ निरीहं गन्तारं परमभुवि मन्तारमखिलं
निहन्तारं हेलाकलिकलह..........। भवन्तं नन्तारो नहि खलु निमज्जन्ति भवभी___ महापारावारे मरणभयकल्लोलकलिले ॥ २८ ॥ एवं सेवापरिहरहया (?) लोलचूलामणीद्ध
च्छायालीढं खरकिरणभाभिन्नमम्भोरुहं वा । चित्तागारे चरणकमलं ते चिरं धारिणो मे
सिद्धावासं बहुभवभयारम्भरीणाय देहि ॥ २९ ॥ इत्थं ते समसंस्कृतस्तवमहं प्रस्तावयामासिवा__नाशंसे जिनवीर नेन्द्रपदवीं न प्राज्यराज्यश्रियम् । लीलाभाजि न वल्लभप्रणयिनीवृन्दानि किं त्वर्थये
नाथेदं प्रथय प्रसादविषदां दृष्टिं दयालो मयि ॥ ३० ॥ इति श्रीजिनवल्लभसूरिप्रणीतं समसंस्कृतप्राकृतं श्रीमहावीरस्वामिस्तोत्रम् ।
१. जिनवल्लभेति ग्रन्थकर्तुर्नामापि.
For Private and Personal Use Only