________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूक्तिमुक्तावली । कृत्वाहत्पदपूजनं यतिजनं नत्वा विदित्वागमं
हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिननं
स्मृत्वा पंञ्चनमस्त्रियां कुरु करकोडस्थमिष्टं सुखम् ॥ ९५ ॥ प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदरा
भ्युदयजननी याति स्फीतिं यथा गुणसंततिः । कलयति यथा वृद्धिं धर्मः कुकर्महतिक्षमः
सुलभकुशले न्याय्ये कार्य तथा पथि वर्तनम् ॥ ९६ ॥ भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरी
तदानीं मा कार्षीविषयविषवृक्षेषु वसतिम् । यतश्छायाप्येषां प्रथयति महामोहमचिरा
देयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ॥ ९७ ॥ सोमप्रभाचार्यमभा च लोके वस्तु प्रकाशं कुरुते यथाशु । तथायमुच्चैरुपदेशलेशः शुभोत्सवज्ञानगुणांस्तनोति ॥ ९८ ॥ अमजदजितदेवाचार्यपट्टोदयाद्रि
घुमणिविजयसिंहाचार्यपादारविन्दे । मधुकरसमतां यस्तेन सोमप्रभेण
____ व्यरचि मुँनिपनेत्रा सूक्तिमुक्तावलीयम् ॥ ९९ ॥ इति श्रीसोमप्रभाचार्यविरचिता सिन्दूरप्रकरापरपर्याया सूक्तिमुक्तावली ।
१. जिनमतप्रसिद्धां पञ्चपरमेष्टिनमस्कृतिम्. २. 'कुशलसुलभे' क-ख. ३. एत. च्छोकानन्तरं क-पुस्तके 'करे श्लाध्यस्त्यागः शिरसि गुरुपादप्रणमनं मुखे सत्या वाणी श्रुतमधिगतं च श्रवणयोः । हृदि स्वच्छा वृत्तिर्विजयि भुजयोः पौरुषमहो विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥' अयं श्लोकोऽधिकः. ४. 'विमुच्यैनं दूरे भव जनमनः शमसदनम्' ख. ५. 'सोमप्रभाचार्यमभा च यन्न पुंसां तमःपङ्कमपाकरोति । तदप्यमु. मिन्नुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥' अयं क-पुस्तकपाठः शृङ्गारवैराग्यतरङ्गिणीधृतपाठसमानः. अत्र ग्रन्थका सोमप्रभाचार्य इति स्वकीयं नाम युक्त्या निवेशितम्. ६. अयं श्लोकः ख-ग-पुस्तकयो स्ति. ७. मुनीन्द्रनायकेन.
For Private and Personal Use Only