SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सिद्धिप्रियस्तोत्रम् | Acharya Shri Kailassagarsuri Gyanmandir स्वर्गापवर्गसुखपात्र जिनातिमात्रं यस्त्वां स्मरन्भुवनमित्र जिनाति मोत्रम् । श्रीमन्ननन्त वर निर्वृतिकान्त कान्तां भव्यः स याति पदवीं नैतिकान्तकान्ताम् ॥ १९ ॥ जन्माभिषेकमकरोत्सुरराजनामा यस्याश्रितो गुणगणैः सुरराज नामा | धर्मः करोत्वनसं प्रति बोधनानि सिद्ध्यै मनः सपदि संप्रति वो धनानि ॥ १५॥ नास्तानि यानि महसा विधुनामितानि चेतस्तमांसि तपसा विधुनामि तानि । इत्याचरन्वरतो गतकामिनीति शान्तिः पदं दिशतु मेऽगतकामिनीति ॥ १६ ॥ कुन्थुः क्षितौ क्षितिपतिर्गतमानसेनः पूर्व पुनर्मुनिरभूद्धतमानसेनः । योऽसौ करोतु मम जन्तुदयानिधीनां संवर्धनानि विविधद्धर्युदयानि धीनाम् ॥ १७ ॥ या ते शृणोति नितरामुदितानि दानं यच्छत्यभीप्सति न वा मुदिता निदानम् । सा नो करोति जनता जनकोपितापि चित्तं जिनीर गुणभाजन कोपि " तापि ॥ १८ ॥ मल्लेर्वचांस्यनिकृतीनि संभावनानि धर्मोपदेशकृतीनि संभावनानि । For Private and Personal Use Only ३३ १. जीर्यते वृद्धो भवति. २. मां मोक्षलक्ष्मीं त्रायते मात्रस्तम् ३. मुक्तिप्रभो. ४. हे व्रतिक व्रतदानदक्ष, अन्तकान्तां यमस्य विनाशकां पदवीम्. ५. ना पुरुषो गुणगणैः अमा सह सुष्ठु रराज. ६. गता कामिनां नीतिर्यस्मात्तपसः ७. अगता न प्राप्ता कामिन्य इतयश्च यत्र तादृशं पदम्. ८. अप्रमाणा सेना यस्य. ९. आगामिवाञ्छाम्. १०. हे जिन, हे अर. ११. कोपयुक्तं तापयुक्तं च चित्तं नो करोति. १२. भावनया सहितानि १३. सभाया अवनानि.
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy