________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एकीभावस्तोत्रम् |
भक्त्या नते मयि महेश दयां विधाय दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३९ ॥
निःसंख्यसारशरणं शरणं शरण्य
Acharya Shri Kailassagarsuri Gyanmandir
मासाद्य सादितरिपुप्रथितावदानम् ।
त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो
वन्ध्योऽस्मि चेद्भुवनपावन हा हतोऽस्मि ॥ ४० ॥
देवेन्द्रवन्द्य विदिताखिलवस्तुसार
संसारतारक विभो भुवनाधिनाथ ।
त्रायस्व देव करुणाद मां पुनीहि सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥ ४१ ॥ यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां
भक्तेः फलं किमपि संततसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः
स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवज्जिनेन्द्र सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः ।
त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्ष्या
ये संस्तवं तव विभो रचयन्ति भव्याः ॥ ४३ ॥
जननयनकुमुदचन्द्र प्रभाखराः स्वर्गसंपदो भुक्त्वा । ते विगलितमलनिचया अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ ( युग्मम् ) इति श्रीसिद्धसेनदिवाकरविरचितं पार्श्वनाथस्य कल्याणमन्दिरस्तोत्रम् ॥
३
श्रीवादिराजप्रणीतं एकीभावस्तोत्रम् ।
एकीभावं गत इव मया यः स्वयं कर्मबन्धो घोरं दुःखं भवभवगतो दुर्निवारः करोति ।
१. बिम्ब प्रतिमा. २. वादिराजस्य देशकालौ न ज्ञायेते, किं त्वेतत्प्रणीतमेकीभावस्तोत्रं दिगम्बरा एव पठन्ति अस्य स्तवस्य कर्तृनामरहितैका संक्षिप्तावचूरिस्त्रीणि मूलपुस्तकानि चास्माभिर्जयपुर एव समधिगतानि.
For Private and Personal Use Only
१७