________________
Shri Mahavir Jain Aradhana Kendra
१४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
त्वद्गोचरे सुमनसां यदि वा मुनीश गच्छन्ति नूनमध एव हि बन्धनानि ॥ २० ॥
स्थाने गभीरहृदयोदधिसंभवायाः पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसंमदसङ्गभाजो
भव्या व्रजन्ति तरसाप्यजरामरत्वम् ॥ २१ ॥ स्वामिन्सुदूरमवनम्य समुत्पतन्तो
मन्ये वदन्ति शुचयः सुरचामरौघाः ।
येsस्मै नतिं विदधते मुनिपुंगवाय
ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ २२ ॥ श्यामं गभीरगिरमुज्ज्वलहेमरत्न
सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयन्ति रभसेन नदन्तमुच्चै
चामीकराद्विशिरसीव नवाम्बुवाहम् ॥ २३ ॥ उद्गच्छता तव शितिद्युतिमण्डलेन लुप्तच्छदच्छविरशोकतरुर्बभूव ।
सांनिध्यतोऽपि यदि वा तव वीतराग
नीरागतां व्रजति को न सचेतनोऽपि ॥ २४ ॥
भो भोः प्रमादमवधूय भजध्वमेन
मागत्य निर्वृतिपुरीं प्रति सार्थवाहम् । एतन्निवेदयति देव जगत्रयाय
मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥ २९ ॥ उद्दयोतितेषु भवता भुवनेषु नाथ
तारान्वितो विधुरयं विहताधिकारः । मुक्ताकलापकलितोरुसितातपत्र
व्याजात्रिधा धृततनुर्ध्रुवमभ्युपेतः ॥ २६ ॥
For Private and Personal Use Only