________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भक्तामरस्तोत्रम् |
वल्गत्तुरङ्गगजगर्जितभीमनादमाजौ बलं बलवतामपि भूपतीनाम् ।
उद्यद्दिवाकरमयूखशिखापविद्धं
त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ४२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कुन्ताग्रभिन्नगजशोणितवारिवाह
वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा
स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ४३ ॥
अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठ भयदोल्बणवाडवाग्नौ ।
रङ्गत्तरङ्गशिखर स्थितयानपात्रा
स्वासं विहाय भवतः स्मरणाद्रजन्ति ॥ ४४ ॥ उद्भूतभीषणजलोदर भारभुंग्नाः
शोच्यां दशामुपगताच्युतजीविताशाः । त्वत्पादपङ्कजरजोभृतदिग्धदेहा
भर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४९ ॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा
२
गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः
सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४६ ॥ मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थम् ।
तस्याशु नाशमुपयाति भयं भियेव
यस्तावकं स्तवमिमं मतिमानधीते ॥ ४७ ॥
१. वारिवाहा जलप्रवाहाः २. 'चक्रे' इति पाठ: ३. 'भन्नाः,' 'मग्नाः' इति च
पाठ:.
For Private and Personal Use Only