________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
यः संस्तुतः सकलवाङ्मयतत्त्वबोधा
दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः ___ स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ (युग्मम्) बुद्ध्या विनापि विबुधार्चितपादपीठ ___ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब
___ मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३ ॥ तेभ्यः श्लोकेभ्यस्तेषां मन्त्राणामुद्धागे दुष्कर एव. अस्माभिस्तु टीकाचतुष्कमुपलब्धम्-तत्र (१) श्वेताम्बरेण गुणचन्द्रसूरिशिष्यगुणाकरेण प्रणीता टीका समीचीना. अस्यां चतुश्चत्वारिंशत्पद्यानि व्याख्यातानि. प्रायः पद्यानन्तरं मन्त्रस्तत्प्रभावकथा च व. णितास्ति. टीका निर्माणसमयस्तु समाप्तौ 'वर्षे षडिशाधिकचतुर्दशशतीमिते (१४२६) च वर्षौ । मामि नभस्ये रचिता सरस्वतीपत्तने विवृतिः ॥' इत्थमुक्तः. नागार्जुनप्र. णीतयोगरत्नावल्याटीकाकारो गुणाकरस्त्वस्माद्भिन्नः. यतस्तट्टीकान्ते 'श्रीमन्नपविक्रमतो द्वादशनवषड्भिरङ्किते (१२९६) वर्षे । रचिता गुणाकरेण श्वेताम्बरभिक्षुणा वि. वृतिः ॥' इति टीकानिर्माणकालो वर्तते, (२) तपागच्छीयहीरविजयसूरिशिष्यक. नककुशलप्रणीता टीका संक्षिप्ता उपोद्धातप्रभावकथाभी रहिता च. अत्रापि चतुश्चत्वारिंशत्पद्यान्येव व्याख्यातानि. समाप्तौ च 'श्रीमत्तपगणगगनाङ्गणदिनमणिहीरविजयसूरीणाम् । शिष्याणुना विरचिता वृत्तिरियं कनककुशलेन । नयनशररसेन्दु(१६५२)मिते वर्षे सुविराटनाम्नि वरनगरे । बालजनविबोधार्थ विजयदशम्यां हि सुसमाप्ता॥' एतदार्यायुग्मं वर्तते. (३) इयं टोका कर्तनामरहिता सामान्या उपोद्धातमात्रसमेता वतते. एतत्प्रणेतापि कश्चन श्वेताम्बर एव प्रतीयते. यतोऽनेन मानतुङ्गाचार्यों बृहद्गच्छाधीशः श्वेताम्बरश्चासोदित्युक्तमस्ति. किंत्वयमष्टचत्वारिंशच्छोकान्व्याख्यातवानि. त्यस्य श्वेताम्बरवे मनाक्संदेहः. (४) इयं टीका १६६७ संवत्सरे दिगम्बरभट्टारकरत्नचन्द्रेण प्रणीता. अत्रापि तादृश एवोपोद्वातोऽनुष्टुप्पद्यघटितस्तादृश्य एवं प्रभावकथाश्च वर्तन्ते. मानतुङ्गाचार्यों दिगम्बर आसीदित्यप्यत्रास्ति. किं तु टीकाकारः सुत. रामप्रौढः. एतट्टीकाचतुष्टयमस्मभ्यं सूरतनगरवासिनास्मन्मित्रेण केवलदासात्मजभगवा. न्दासश्रेष्ठिना प्रहितम्. द्वित्राणि मूलपुस्तकानि त्वस्माभिर्जयपुरेऽधिगतानि. तदाधारेणास्माभिरेतत्स्तोत्रमुद्रणमारब्धमिति शुभम्.
१. श्रीनाभेयमिति गुणाकरः. वृषभमिति रत्नकुशलः. श्रीआदिनाथमिति कर्तनामरहितटीका,
For Private and Personal Use Only