________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
धर्म |
मंजूषा
४
यः कर्णाज्यां विनिर्गता घूमरेखेव रेजे. तस्मिन् समये शक्रः स्वामिस्कंधे देवदृष्यं न्यवेशयत. " करेमि सामाईयमिति " कृत्वा चतुःसहस्रसंख्यैर्नृपैर्युतः सिघ्नमस्कारं कृत्वा कृताष्टमतपाश्चैत्रश्यामाष्टम्यां पश्चिमे यामे उत्तराषाढास्थे चंडे व्रतमुपाददे. व्रतग्रहणानंतरं वर्षाते श्रेयांसगृहे ईक्षुरसेवैशाख शुक्ल तृतीयायां प्रयोः पारणकमत् तत्र पंच दिव्यानि संजातानि ततः प्रभृति सादयतृतीयेति पर्वत्वेन विश्रुता जाता नृपांगजः श्रेयांसः श्रेयस्कृते तत्र प्रयोः पादयुतं रत्नपीठं चकार. एवमार्यानार्यदेशेषु विहरमाणो भगवानयोध्यामहापुर्यासन्नशाखायुरे पुश्मितालाख्ये समागाव. दी दादिनादारन्य वर्षसहस्रांते फाल्गुने मासि कृष्णैकादश्यां तिथौ उत्तराषाढास्थे सितदीधितौ शुक्लध्यानधनो जिनः केवलज्ञानमवाप ततश्चासनकंपेन चतुःषष्टिसुरेशैः कृते समवसरणे रत्नचीकररजतकृत प्रवरप्राकारे बरे सिंहासने स्थितो जगवान् सुरासुरमनुजपर्षदि यावच्चतुर्धा धर्ममाचष्टे, तावत् केवलज्ञानवर्धापनका वर्धितो जस्तचकोत्पत्तिवर्धापनिकयापि वर्धितः ततः पूर्वे चकोत्पत्तिमहो त्सवं तात ज्ञानोत्पत्तिमहोत्सवं वा करोमीति संशयानंतर मिहपरलोकहितत्वात्पूर्वे तातः पूज्य इति कृ त्वा चरतो मातरं मरुदेवीं प्रत्यागत्य विज्ञपयति. हे स्वामिनि ! याग ? तव सुतर्हि दर्शयामीति.
For Private And Personal Use Only