________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 वादिव्यपदेशो भवति नतु केवलिनः, तस्य कदाचिदपि प्रमादववाभावादिति नातिव्याप्त्यादिदोष इत्याहुः॥ ___ तेषां यथयमाशयोऽप्रमत्तसंयतेषु केवलित्वगमकमाणातिपाताभावादिलिंगानां म्पभिचारः, 'कदाचिदपि' इति विशेषणेन तद्योग्यताभावानां लिङ्गत्वलामेन वार्यत इति छमस्थलिङ्गेषु ' कदाचिद् ' इति विशेषणं योग्यतास्पष्टत्वार्थमिति; तदा सा योग्यता प्राणातिपातादिमागभावरूपा ग्राह्येति केवलिपरोक्षायां क्षपकश्रेणावपूर्वकरणादीनां तदभावात्तेषु व्यभिचारो दुर्वारः। छमस्थपरीक्षायां च प्रमत्तस्यैव पक्षत्वे योग्यताग्रहणवैकल्यम् , सर्वेषां तु छद्मस्थानां पक्षत्वे तेष्वेवासिद्धिरिति किमप्रमत्तादावौपचारिकमाणातिपातकत्वादिविवक्षया ? इति प्रमत्ताप्रमत्तसाधारणपक्षकछमस्थत्वसाधने प्राणातिपातादिलिङ्गेषु 'कदाचिद्' इति विशेषणेन साध्याधिकरणकिश्चित्कालावच्छिन्नत्वं देयम् , केवलित्वगमकलिङ्गेषु च साध्याधिकरणयावत्कालावच्छिन्नत्वं देयमिति नोद्देश्यासिद्धिर्न वा व्यभिचार इति विभावनीयम् / यत्तु भावभूतलिङ्गानां न छमस्थज्ञानोपयोगित्वमिति / तदसद् , भावभूतानामेव शमादिलिंगानां छद्मस्थानां परनिष्ठसम्यक्त्वज्ञानजनकलप्रतिपादनात् / तदुक्तं योगशास्त्रहत्तौ-" पञ्चभिलक्षणैर्लिङ्गैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते, लिङ्गानि तु शमसंवेगनिर्वेदानुकम्पास्तिक्यस्वरूपाणीत्यादि " / बाबपरिणतिविशेषादेव तत्र शमादिभावलिङ्गज्ञानसौलभ्यमिति चेद् , अत्रापि तत एवं न भावलिङ्गज्ञानदौर्लभ्यं परीक्षकाणाम् / एतेन छमस्थत्वगमकानि लिङ्गानि यावदुपञ्चान्तवीतरागमेव भवन्ति / यच्च क्षीणमोहस्य मृषाभाषणं तच्छमस्थज्ञानगोचरस्वेन न लिङ्गम् , द्रव्यतो मृषाभाषणस्य क्रोधाद्यभावेन क्षीणमोहेऽभावादित्यादि यदुक्तं तन्निरस्तम् , उक्तरीत्या द्रव्यव्यतिरिक्तस्यापि मृषावादस्य सुपरीक्षकाणां मुग्रहत्वात् / किंच-क्षीणमोहस्य द्रव्यतो मृषाभाषणं नास्तीति सर्वशास्त्रविरुद्धम् , यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया च विराधना, इष्यते चासो द्रव्यतो वीतरागस्यापि छमस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानादिति पञ्चाशकवृत्तौ द्रव्यत एव मृषावादस्य क्षीणमोहेऽभिधानात् / अत एव सूक्ष्मप्रमादनिमित्चविराधनयाऽऽलोचनाप्रायश्चित्तं तत्रोक्तम् / तथाहि आलोअणाविवेगो वा णियंठस्स दुवे भवे / विवेगो अ सिणायस्म एमेया पडिवत्तिओ // " ति For Private and Personal Use Only