________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 243 णितम्, तथा च सिद्धं क्षीणमोहस्यापि मृषा भाषणम्, तच्च छमस्थत्वावबोधकं लिअमेव, तत्कथमुच्यते छद्मस्थत्वज्ञापकलिङ्गानि यावदुपशान्तवीतरागमेव भवन्ति ? इति चेद् / मैवम्, छद्मस्थज्ञानगोचरस्यैव मृषाभाषणस्य लिङ्गत्वेनाभिमतत्वात् / तच्च द्रव्यतो मृषाभाषणं क्षीणमोहस्य न भवति, क्रोधादिजन्यत्वाद् / यदागम:-" सर्व भंते ! मुसावायं पञ्चक्खामि / से कोहा वा लोहा वा, भया वा, हासा वा," इत्यादि क्षोणमोहस्य चक्रोधादयो न भवन्तीति कारणाभावाद् द्रव्यतो मृषाभाषणस्याभावः3; तथा च भावतो मृषाभाषणस्य सुतरामभावः, तस्य मोहनीयोदयजन्यत्वात् / तथा च क्षोणमोहमात्रस्य द्रव्यतो भावतो वा मृपाभाषणं न भवत्येव; संयतानां जीवधातादावनाभोगसहकृतमोहनीयकर्मणो हेतुत्वात् ; मोहनीयाभावे चानाभोगो वास्तवमृपाभाषणं प्रत्यकारणं सन्नपि सम्भावनारूढमृषाभाषणं प्रति कारणं भवत्येव, अनाभोगस्य तथास्वभावस्यानुभवसिद्धत्वात् / तेन क्षीणमोहस्याप्यनाभोगहेतुके सम्भावनारूढजीवविराधनावन्मुषाभाषणमपि भवत्येव; तच छमस्थज्ञानागोचरत्वेन छमस्थत्वावबोधकं लिङ्गं न भवति, तस्य केवलज्ञानगम्यत्वात् न च सम्भावनारूढस्य मृषाभाषणस्य मृषाभाषणत्वव्यपदेशो न भविष्यतीति शङ्कनोयम् , सम्भावनारूढं मृषाभाषणमिति भणित्वापि मृषाभाषणव्यपदेशो न भविष्यतीति भणतो वदव्याघातापत्तेः। किश्च-जैनानामलोकेऽपि कल्पितलोकस्याङ्गीकारे कल्पनाया इव सम्भावनाया अपिप्रामाण्यमेव,तत एव कालशौकरिकस्य कल्पितमहिषव्यापादनं महिषव्यापादनतया भगवता श्री महावीरेण भणितमिति प्रवचने प्रसिद्धिः; तस्मात् कर्मबन्धाहेतुत्वेऽपि सम्भावनारूढमृषाभाषणस्य स्नातकचारित्रप्रतिवन्धकत्वेन द्रव्यमृषाभाषणस्येव दोषत्वम् , चित्रलिखितायां नार्यां नारीत्वव्यपदेशस्येव मृषावादव्यपदेशस्य च विषयत्वं प्रतिपत्तव्यमिति न दोष इति: तस्माद् यावदुपशान्तवीतरागमेव छअस्थत्वज्ञापकानि लिङ्गानोति स्थितम् / तानि च प्रत्यक्षगम्यानि मिथ्याकारादिलिङ्गगम्यानि वा; अयं साधुः साक्षात् सम्भावनया वा प्राणातिपातादिप्रतिषेवितैव, मिथ्याकारान्यथानुपपत्तेः, अस्मदादिवद्-इत्येवं लिङ्गगम्येनापि प्राणातिपातादिना लिङ्गेन 'छनस्थोऽयं संयतः' इत्येवं निश्चयसम्भवात् / स च मिथ्याकारः कादाचित्क एव जीवघातादौ भवति, पुनरकरणाभिमायेण तस्य फलवत्वात् , सार्वदिकस्य तु तस्य सम्भवे सर्वविरतिपरिणामस्यैवानुपपत्तिः, प्रतिसमयमनवरतं जीवयातो भवत्येव इत्यभिप्रायस्य For Private and Personal Use Only