________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चारणादिषु परिदृष्टा जीवविराधनाऽभावलब्धिरनुपजीव्या यदि केवलिनि कल्प्यते, तदा तादृशजङ्घाचारणादिषु परिदृष्टाऽतिशयचरणलब्धिरप्यनुपजीव्या केवलिनि कस्मान कल्प्यते ? तस्या उपजीव्यत्वनियमान तत्कल्पनं केवलिनि कर्तुं शक्यत इति चेद्, तदेतदन्यत्रापि तुल्यमिति स्वयमेव विभावय / तस्मानियतयोगव्यापारादेव भगवतां जीवरक्षा, नतु स्वरूपत इत्यवश्यंभाविन्यां जोवविराधनायां न किश्चिद्वाधकमिति स्थितम् // 84 // ___ नन्वेवमवश्यभाविन्याऽपि जीवविराधनया केवलिनोऽष्टादशदोषरहितत्वं न स्याद्, हिंसादोषस्य तदवस्थत्वाद् / न 'देवोऽष्टादशदोषरहित एव'-इत्यत्राप्येकान्तवादो जैनानामनिष्ट इति शङ्कनीयम्, अनेकान्तवादस्याप्यनेकान्तत्वेनात्रकान्ताभ्युपगमेऽपि दोषाभावादित्याशङ्कायामाह-- दवारंजं दोसं अट्ठारसदोसमझयाम्म / जो इच्छइ सोइच्छणो दवपरिग्गरं कम्हा // 5 // __'दरारंभं'ति / अष्टादशदोषमध्ये यो द्रव्यारम्भं दोषमिच्छति, स द्रव्यपरिग्रह दोष कस्मान्नेच्छति ? तथा च धर्मोपकरणसद्भावाद् द्रव्यपरिग्रहेण यथा न दोषवत्वं तथा द्रव्यारम्भेणापि न दोषवत्वम् , भावदोषविगमादेव भगवति नि>पत्रव्यवस्थितेरिति भावनीयम् / यच्चोक्तं निर्दोषत्वे भगवतो नानेकान्त इति, तदसद्; दोषविभागकृतानेकान्तस्य तत्राप्यविरोधाद् / यच्चानेकान्तस्यानेकान्तसमधिकरणानियमापेक्षयोद्भावितं तत्केनाभिप्रायेण ? इति वक्तव्यम् , अन्ततः स्वपररूपापेक्षयाऽप्यनेकान्तस्य सर्वत्र सम्भवाद्, अत एवात्मानात्मापेक्षया सर्वत्रानेकान्तो वाचकपुङ्गवेनोक्तः / द्रव्यात्मेत्युपचारः सर्वद्रव्येषु नयविशेषेण, आत्मादेशादात्मा भवति, अनात्मा परादेशादिति / अनेकान्तस्यानेकान्तत्वं तु स्याद्वाजसप्तभङ्गीवाक्यघटकैकतरभङ्गावच्छेदकरूपापेक्षया व्यवस्थितम् / अत एव-- " भयणा वि हु भइअबा जह भयणा भयइ सबदवाई। एवं भयणाणियमो वि होइ समयाविराहणया // " त्ति सम्मतिगाथायां भजनाऽभजनायाः समयाविराधना / " इमाणं भंते ! रयणप्पभापुढवो किं सासया असासया ? गो! सिय सासया, सिअ असासया" इति / स्याद्वाददेशनायां द्रव्यार्थतया शाश्वत्येव, पर्यायार्थतया त्वशाश्वत्येवेत्यधि For Private and Personal Use Only